________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
१२४
स्वपापप्रकाशनरूपां-कुर्वतः श्रमणस्य श्रमण्या वा मासिकं गुरुकं लघुकं वा प्रतिसेवनाsनुसारि प्रायश्चित्तं भवति, पापस्थानस्य प्रतिसेवनां कृत्वा कपटरहितभावेन उपागताय शिष्याय प्रतिसेवनानुसारि लघुकं गुरुकं वा प्रायश्चित्तं गुरुर्दधात् इत्यर्थः । 'पलिउंचिय आलोएमाणस्स दोमासियं' परिकुच्य आलोचयतो द्वैमासिकम् परिकुच्य द्वैमासकपटम् आलोचयत आलोचनां कुर्वतः शिष्यस्य सिकं लघुकं गुरुकं वा प्रायश्चित्तं गुरुर्दद्यादिति । यदत्र मासिकं प्रायश्चित्तं कथितं तत्र मासः पञ्चप्रकारको भवति तद्यथा-नक्षत्रमासश्चन्द्रमास ऋतुमास आदित्यमासोऽभिवद्धि तमासश्च, तत्र नक्षत्रमासः सप्तविंशत्यहोरात्रप्रमाणः तथा एकस्याहोरात्रस्य च एकविंशतिः सप्तषष्टिभागाश्च (२७३९ एष लक्षणतः परिमाणतश्च नक्षत्रमासः । चन्द्रमास एकोनत्रिंशदहोरात्रप्रमाणः तथा एकस्याहोरात्र दिनस्य च द्वात्रिंशद् द्वाष. ष्टिभागाश्च (२९-३०)। ऋतुमासः त्रिंशदहोरात्रप्रमाणः (३०)। आदित्यमासः सार्द्धत्रिंशदिनप्रमाणः (३०)। अभिवर्द्धितमासस्तु एकत्रिंशदिनानि, एकस्य च दिनस्य चतुर्विशत्यधिकशतस्खण्डितस्य एकविंशत्यधिक भागशतम् (३१२२१) । उक्तञ्च
एक्कत्तीसं च दिणा, दिणभागसयं तहेक्कवीसं च ।
अभिवढिओ उ मासो, चउवीससरण छेदेण ॥ छाया-एकत्रिंशच्च दिनानि दिनभागशतं तथैकविंशतिश्च ।।
अभिवद्धितस्तु मासः, चतुर्वि शशतेन छेदेन ॥ इति। अत्र तेषां पञ्चानामपि नासानां मध्ये कर्ममासेनाऽधिकारः, तत्र क्रममासः ऋतुमासः त्रिशदिनात्मकः, तपश्चर्यादिकं प्रायश्चित्तं च ऋतुमासेनैव भवति । प्रायश्चित्तदाने ऋतुमासस्यैवाधिकारादिति । अथ यदत्र सूत्रे प्रतिसेवनमशुभकर्मणां कथितं तत् प्रतिसेवनं द्विविधं मूलगुणप्रतिसेवनमुत्तरगुणप्रतिसेवनं च, तत्र पुनर्मूलगुणप्रतिसेवनं पञ्चविधं पञ्चमहावतात्मकम् , उत्तरगुणप्रतिसेवन दशविधम् आलोचनार्ह १-अतिक्रमणार्ह २-तदुभयाई ३-विवेकाह ४-व्युत्साह ५-तपोऽहं ६-छेदाई ७ - मूला ८-नवस्थाप्याई ९-पाराञ्चिक १०-भेदात् । पुनरपि एकैकं द्विविधं द्रव्येण कल्पेन च, इदं प्रति सेवनं कर्मोदयेन भवति, कर्म च प्रतिसेवनया भवति बीजाङ्कुरवत् अनयोः परस्परापेक्षत्वम्, एतादृशप्रतिसेवनस्याऽऽलोचनं द्विप्रकारेण भवति शुद्ध भावेन कपटभावेच, तत्र शुद्धभावेन मालोचयतः शुद्धिर्भवति, कपटभावेन आलोचयतस्तु शुद्धिर्न भवति । तत्र दृष्टान्तो यथा-आसीत् कश्चित् नर्मदातटे निवसन् बुभुक्षया खिन्नः तापसः फलमूलादिकमानेतुं वनं गतवान्, तत्र इस्तत परिभ्रमन् नर्मदातटे कुत्रचित् मृतमत्स्यकलेवरं प्राप्तवान्, प्राप्य तमेवानीय भक्षयित्वा बुभुक्षामपनीतवान् परन्तु मत्स्य
For Private and Personal Use Only