________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
निशीथसूत्रे
सूत्रम्--जे भिखू असल्झाइए सज्झायं करेइ करेंतं वा साइज्जइ ॥ छाया --यो भिक्षुरस्वाध्यायिक स्वाध्यायं करोति कुर्वन्तं वा स्वदते । सू० १५॥
चूर्णी- -'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'असज्झाइए' अस्वाध्यायिके काळे-सूर्योदयाद नन्तरमर्द्धमुहूर्तसमये सूर्यास्तसमयात्पूर्व अर्द्धमुहूर्तसमये तथा रात्रावपि सूर्यास्तसमयादनन्तरमर्द्धमुहूर्तसमये, निशावसानेऽपि सूर्योदयात्पूर्वममुहूर्तसमये, एवं दिवा रात्रौ च चतुर्यु अस्वाध्यायकालेषु 'सज्झायं' स्वाध्यायं सूत्रार्थयोर्वाचनालक्षणम् 'करेइ' करोति तथा 'करेंत' वा साइज्जइ' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥सू० १५॥
सूत्रम्--जे भिक्खू अप्पणो असज्झाइए सज्झायं करेइ करेंतं वा साइज्जइ ॥ सू०१६॥ __ छाया-यो भिक्षुरात्मनोऽस्वाध्यायिक स्वाध्यायं करोति कुर्वन्तं वा स्वदते ॥
चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अप्पणो असज्झाइए' आत्मनः स्वकीयशरीरसंबन्धिनि अस्वाध्यायिके काले, तत्र स श्रमणस्यै कविधः-त्रणाशों. भगन्दरा देरूपः, श्रमण्या द्विविधः व्रणादिसमुत्थः १ ऋतुसमुत्थश्च २, तस्मिन् एतादृशे आत्मनः स्वशरीरस्य सम्बन्धिनि अस्वाध्यायिके काले 'सज्झायं' स्वाध्यायं करोति तथा 'करेंतं वा साइज्जइ' आत्मनोऽस्वाध्यायिके काले स्वाध्यायं कुर्वन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।।सू० १६॥
सूत्रम्-जे भिक्खू हेठिल्लाइं समोसरणाई अवाएत्ता उवरिल्लाई समोसरणाई वाएइ वाएंतं वा साइज्जइ ॥ मू० १७॥
___ छाया--यो भिक्षुरधस्तनानि समवसरणानि अवाचयित्वा उपरितनानि समवसर णानि वानति वाचयन्तं वा स्वदते ॥९० १७॥
___ चूर्णी -'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'हेठिल्लाइं समोसरणाई' अधस्तनानि आधानि समवसरणानि, तत्र समवसरणमिति मेलनं संमिश्रणं वा, अत्र समवसरणं सूत्रार्थयोः जीवाजीवादिनवपदार्थानां वा संमेलनम् , ततः समवसरणानि संमिलितसूत्रार्थरूपाणि 'अवाएत्ता' अवाचयित्वा पूर्वसूत्रविषयिणी वाचनामदत्वा पूर्वसूत्रमनधीत्येत्यर्थः 'उवरिल्लाई समोसरणाई उपरितनानि-उत्तरकालिकानि समवसरणानि सूत्रार्थ रूपाणि 'वाएई' वाचयति-परेभ्यो वाचनां ददाति एवं 'वाएंत वा साइज्जई' वाचयन्तमन्यं वा श्रमणान्तरं स्वदते. अनुमोदते स प्रायश्चित्तभागी भवति, तत्र यत् यस्यादिमं सूत्रम् तत् तस्याधस्तनमिति कथ्यते,
For Private and Personal Use Only