SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अष्टादशोदेशकः ॥ सप्तदशोदेशकं व्याख्याय तदनु अवसरप्राप्तोऽष्टादशोदेशकः प्रारभ्यते, अथास्याष्टादशोदेशकादिसूत्रस्य सप्तदशोदेशकान्तिमसूत्रेण सह कः सम्बन्धः ? इति चेदत्राह भाष्यकारःभाष्यम्-- सहस्स सवणहाए, गमणं दुहिं भवे । जलेण थलमग्गेण जलेणेत्थ निसिज्झइ ॥ छाया- शब्दस्य श्रवणाय गमनं द्विविधं भवेत् । जलेन स्थलमार्गेण जलेनात्र निषिध्यते ॥ अवचूरिः- सप्तदशोद्देशके शब्दस्य श्रवणार्थाय ततविततशुषिरादिवादित्राणां तथा अनेकेषां विविधशब्दानां श्रवणार्थाय, तत्र स्थलविशेषे 'ततविततशुषिरादिवादित्राणां मनोहरशब्दोऽवश्यमेव श्रोतव्यः' इत्येवं प्रकारेण मनसा निश्चयं करोति, तच्छवणं च शब्दस्थानमगत्वा असंभवि इति मत्वा अवश्यमेव गमनं करिष्यति, तद् गमनं द्विविधं-द्विपकारकं भवेत् एकं गमनं जलेन-जलमार्गेण द्वितीयं च गमनं स्थलमार्गेण । तत्र पूर्व शब्दश्रवणार्थ स्थलमार्गस्य निषेधः कृतः। जलमार्गेण गमनं तु नावमाश्रित्य भवतीति नौकाविषयको निषेधोऽत्रास्मिन् उद्देशके करिष्यते, अयमेव सम्बन्धः पूर्वापरोदेशकसूत्रयोर्भवतीति, तदनेन संबन्धेन आयातस्यास्याष्टादशोदेशकस्येदं प्रथमं सूत्रम् सूत्रम्-जे भिक्खू अणट्ठाए णावं दूरूहइ दूरुहंतं वा साइज्जइ ॥ छाया-यो भिक्षुः अनर्थाय नावं दुरोहति दूरोहन्तं वा स्वदते ॥ सू. १॥ चूर्णी --'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अणहाए' अनर्थाय तत्र न अर्थाय इति अनर्थाय अत्रार्थशब्दः प्रयोजनार्थद्योतकस्तथा च प्रयोजन मन्तरेणैव इत्यर्थः । अथवा-अनर्थाय-स्वेष्टसिद्धेविघातकाय साधूनामिष्टं मोक्षप्राप्तये संयमाराधनम्, नहि संयमाराधनमकृत्वा कोऽपि मोक्षभागी संभवति 'ज्ञानदर्शनचाग्त्रितपांसि मोक्षमार्गः' इति नियमात् नावादिना जलसंतरणेऽवश्यं षट्कायजीवानामतिपातो भवेत् ततश्च संयमो विशधितो भवति ततः 'अणद्वाए' अनर्थाय येन संयमविराधना संपवते सोऽनर्थस्तस्मै, अथवा नज - शब्दोऽत्र अल्पार्थकरतेन अनर्थाय अल्पप्रयोजनाय संयमसम्बन्धिगाढाऽऽगाढकारणमन्तरेण साधो वारोहणं शास्त्रे निषिद्धम्, ततो यो गाढागाढकारणमन्तरेण 'णावं' नावं नौका नद्यादिजलाशयस्य पारगमनाय 'दुरूहइ' दृरोहति नौकायामधिरोहणं करोति तथा 'दुरूहतं वा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy