SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसूत्रे अन्यसंयतार्थ याचकं याचमानं वाऽनुमोदयतो भिक्षुकस्य के दोषा भवन्ति तत्राह भाष्यकार:--'अकारणं' इत्यादि । भाष्यम्-अकारणं जायमाणे भिक्खू सई च पोसगो । आणाणवटामिच्छत्तं तहेव य विराहणं ॥ छाया-अकारणं याचमानो भिक्षुः सूची च पोषकः । आशानवस्थामिथ्यात्वं तथैव च विराधनम् ॥ अवचूरी-'अकारणं' इति । भिक्षुर्निरवद्यभिक्षवृत्तिमान् श्रमणः सूच्याः याचनां कुर्वन् सूची याचमानस्य पोषकोऽनुमोदको वा साधुः आज्ञाभंगदोषान् प्राप्नोति । न खल्वेतादृशी तीर्थकरस्याज्ञा, यत्--साधुभिः अन्यार्थ सूच्याः याचनां करोतु । ततश्च तथाकुर्वन् श्रमणस्तीर्थकराज्ञाभंगं प्राप्नोति, तथाऽनवस्थादोषोऽपि प्रसज्जते तथा कर्तुः एवं मिथ्यात्वदोषं चापि प्राप्नोति तथैव विराधनम् आत्मविराधनां--संयमविराधनां--भाषासमितिविराधनां च प्राप्नोति ॥ सू० २० ॥ सूत्रम्-जे भिक्खू अणट्ठयाए पिप्पलगं जायइ, जायंतं वा साइज्जइ ॥ सू० २१॥ छाया-यो भिक्षुः अनर्थतया पिप्पलकं याचते याचमान वा स्वदते ॥२० २१ ॥ चूर्णी-'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अणहयाए' अनर्थतयानिष्प्रयोजनम् , कारणं विनेत्यर्थः । 'पिप्पलगं' पिप्पलकम्-'कैंची' ति लोकप्रसिद्धम् 'जायई' याचतेअन्यतीर्थिकादिभ्यः । 'जायंतं वा साइज्जई' याचमानं वा स्वदते-अनुमोदते स प्रायश्चित्तभाग भवतीति ॥ सू० २१॥ सूत्रम्-जे भिक्खू अणट्ठयाए कण्हसोहणं जायइ, जायंत वा साइज्जइ ॥ सू० २२॥ छाया-यो भिक्षुरनर्थतया कर्णशोधनकं याचते, योचमानं वा स्वदते ॥ सू० २२ ॥ चूर्णी---'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'अणट्टयाए' अनर्थतया, तत्रार्थः प्रयोजनम्-न-अर्थः इत्यनर्थः प्रयोजनाभावः । तमुद्दिश्य--कण्णसोहणं' कर्णशोधनकम् , कर्णमलमपहर्तु, साधनविशेषलक्षणम् । 'जायई' याचते, अन्यतीर्थिकेभ्यो गृहस्थेभ्यो वा । जायंत वा साइज्जई' याचमानं वा स्वदते -अनुमोदते स प्रायश्चित्तभाम् भवति ॥ सू० २२ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy