SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ निशीथसूत्रे नाम्-अरपयगामिनाम् वणवयाणं' वनवजानाम्, तत्र वनं प्रति, व्रजन्ति-वने गच्छन्ति ये ते वनव्रजाः, तेषां वनगामिनाम् आजीविकार्थम् अरण्ये वने वा गच्छतामित्यर्थः, 'अडविजत्तासंपटियाण' अटवीयात्रासंप्रस्थितानाम्-क्नयात्रा) निर्मतानाम् , तत्र वनवृक्षाकुलं निर्जनं भयङ्करं वनमटवी कथ्यते, तत्सम्बन्धिनी यात्रा-रामनरूपा तदर्थ संप्रस्थितानां काष्ठादिहरणार्थ निर्गतानां तथा वनोपजीविनां काष्ठहारेकाणां संबन्धि यो भिक्षुः 'असणं वा' अशनं वा-पाणं वा' पानं वा 'खाइमं वा' खाचं वा 'साइमं वा' स्वायं वा 'पडिग्गाहेई' प्रतिगृह्णाति-स्वीकरोति स्वीकारयति वा तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा श्रमणान्तरम् स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति यतो यो वनं गच्छति स तु परिमितमेवाशनादिकं स्वस्याभोक्तुं गृह्णातिद् यदि साधुम्रहीष्यति तदा स पुरुषः स्वकीयोदरपूरणे कठमनुभविष्यति तस्मादरण्यादौ गच्छतां वनोपजीविना सम्बन्धि यदशनादिकं तत् न गृह्णीयात् न वा ग्राहयेत् न वा गृहन्तमनुमोदयेदिति ।। सू० १० ॥ सूत्रम्--जे भिक्खु वसुराइयं अवसुराइयं वयइ वयंतं वा साइ. ज्जइ ॥ सू० ११॥ छाया-यो भिक्षुर्वसुराजिकमवसुराजिकं वदति वदन्तं वा स्वदते ॥ सू० ११ ॥ चर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वसुराइयं वसुराजिकम्-विशुद्धज्ञानदर्शनचारित्राराधकं दमितेन्द्रियं जैनदीपकस्वरूपम् , तत्र वसूनि रत्नानि पञ्चमहाव्रतरूपाणि ज्ञानदर्शनचारित्रतपांति वा भावरत्नानि तैः राजते-शोभते यः स वसुराजिकः तथा चैतादृशं वसुराजिक मुनि 'यक्मुराइयं' अवसुराजिकम्-ज्ञानदर्शनचारित्रतपोभावरत्नरहितं- वयई' वदति-कथयति अर्थात् ज्ञानदर्शनचारित्राराधकं मुनिवर्यम् 'नायं वसुराजिकः अपितु धूत्तौ वञ्चको विराधितसयममार्गः' इत्यादिक्रमेण निन्दा करोति, तथा 'वयंत वा साइज्जई' वदन्तं वा तादृशश्रमणान्तरं यः कश्चित् स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भक्तीसि ॥ सू० ११ ॥ सूत्रम्--जे भिक्खू अवसुराइयं वसुराइयं वयइ वयंतं वा साइज्जइ ॥ सू० १२॥ छाया-यो भिक्षुरवसुराजिक वसुराजिकं वदति बदन्तं पा स्वदते ॥ सू० १२ ॥ चूणों-'जे भिक्खू' इत्यादि । 'जे मिक्खू' यः कश्चिब्रिक्षुः श्रमणः श्रमणी बा 'अवसुराइय' अवसुराजिकम् यः खलु ज्ञानदर्शनचारित्राणामनागधकः श्रमणभिन्नः श्रमणसदशश्च केवलं वेषमात्रैण साधुसमानः ज्ञानदर्शनचारित्रात्मकरत्नरहितत्वात्, तमवसुराजिकं पार्श्वस्थादिकम् 'वसुराइयं' For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy