SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चूर्णी-भाष्यावचूरी टीका० उ० १ सू० १४-१७ अकुशलप्रति सेवना ९ स्थूलवंशादिविविधवनस्पतिमिर्मितम् । एतेषामन्यतमेन यो भिक्षुः स्वयं शिक्ककं करोति, अथवा - शाक्यभिक्षुकादिभिरन्यतीर्थिकेन गृहस्थश्रावकादिना वा कारयति, अथवा कुर्बन्तं तमनुमोदते स आज्ञाभङ्गादिकान् दोषान् प्राप्नुवन् प्रायश्चित्तभागी भवति ॥ सू० १४ ॥ सूत्रम् - जे भिक्खू सोत्तियं वा रज्जुयं वा चिलमिलिं वा अण्णउत्थिएण वा गारत्थिएण वा कारेइ करेंतें वा साइज्जइ || सू० १५ ॥ Acharya Shri Kailassagarsuri Gyanmandir छाया - यो भिक्षुः सौत्रिकां वा रज्जुकां वा चिलमिलि वा अन्ययूथिकेन वा गृहस्थेन वा कारयति कुर्वन्तं वा स्वदते ॥ सू० १५ ॥ चूर्णी - 'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः श्रमणः सोत्तियं वा' सौत्रिकां वा-सूत्रभवां वा 'रज्जुयं वा' रज्जुकीं वा रज्जुः 'डोरी' लोकप्रसिद्धा तया शणकादिरज्जुभिर्वा निर्मिता ताम् 'चिलिमिलिं वा' चिलिमिलिकां वा तत्र चिलमिलिका - आहारकरणाय -शयनाय वा कल्पिता वस्त्रादिमयीजवनिका 'पडदा' इति लोकप्रसिद्धा ताम् 'अन्न उत्थिएण वा' अन्ययूथिकेन अन्यतीर्थिकेन वा 'गारस्थिएण वा' गृहस्थेन कलत्रादिपरिवारपरिवृत श्रावकेण वा 'कारेइ' कारयति - स्वयं निर्माति अन्यद्वारेण वा निर्मापयति । 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते - अनुमोदते, कुर्वतोऽनुमोदनां करोति स श्रमणो लभते प्रायश्चित्तम् | भाष्यम् - सुत्त रज्जुनक्केहिं च दंडकडगेहिं तहा । चिलिमिली खु पंचा भिक्खुहिं करणिज्जा नो || || छाया -सूत्ररज्जुवल्कलैश्च दण्डः कटकैस्तथा । चिलमिली खलु पंचधा भिक्षुभिः क्रियमाणा नो ॥ ॥ I अवचूरि : - 'सुत्तरज्जु' इत्यादि । चिलमिली शयनाहारादिकरणाय निर्मिता गृहप्रति रूपिका जवनिका, एतादृशी चिलमिली पंचधा - पंचभिर्भेदैर्विभिन्नाः । सा साधुभिर्न करणीया तत्र पंचप्रकारान् भेदान् दर्शयति- 'सुत्ते ' इत्यादि । सूत्रमयी चिलमिली प्रथमा १, तत्र सूत्रेण-कार्पासिकेन - तदन्येन वा मेषादिकेशनिर्मितेन सूत्रेण वा या कृता सा सूत्रमयी चिलमिली १ । रज्जुमयी - रज्जुनिर्मिता "दोरी" ति प्रसिद्धा द्वितीया २ । 'वक्के' ति- वल्कलमयी, वल्कलं वृक्षत्वक् तया निर्मिता तृतीया ३, वंशो दंडादिः कटकमयोजवनिका ताभ्यां वंशकटकादिभ्यां चतुर्थी पंचमी च, एषा पञ्चप्रकारा चिलमिली साधुभिर्न कार्या ॥ सू० १५ ॥ २ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy