SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशोथसूत्रे छाया- पवं हतयोदेशगमको नेतव्यः यावत् प्रामानुग्राम द्रयन् अन्यतीर्थिकेन वा गाईस्थिकेन पा मात्मनः शीर्षद्वारिकां कारयति कारयन्तं वा स्वदते ॥ सू० १४-१८ ॥ चर्णी-'एवं' इत्यादि । 'एवं तइयउद्देसगमओ णेयव्वो' एवं तृतीयोदेशगमको नेतव्यः, एवम् अनेनैव प्रकारेण तृतीयोदेशगमका-भस्यैव तृतीयोद्देशकगतो गमः सर्वोऽपि नेतव्यःज्ञातव्यः 'जाव' यावत् , अत्र यावत्पदेन 'ने भिक्खू अप्पणो पाए संवाहेज्ज वा' इत्यादिसप्तदशसूत्रादारभ्य 'जे भिक्खू गामाणुगामं दूइज्जमाणे०' इत्येकसप्ततितमसूत्रपर्यन्तं पञ्चपश्चाशसंख्यकसूत्राणि तदर्थश्चेति सर्वं तत्रत एव द्रष्टव्यम् । अत्र तु (१४) चतुर्दशसूत्रादारभ्य अष्टषष्टि (६८) तमसूत्रपर्यन्तं तृतीयोदेशगमवद् व्याख्येयम् । केवलं भेद एतावनेव यत्-तत्र ततीयोद्देशके प्रमार्जनादीनां स्वयं करणविषयको निषेधः कृतः, अत्र तु अन्यतीथिकादिभिः प्रमार्जनादीनां कारणाऽनुमोदनविषयको निषेधो वर्तते इति ।। अत्राह भाष्यकार: पायप्पमज्जणारम्भ, अंते सीसवारियं । गिहिहिं अन्नतित्थीहि, करावे दोसभा भवे ॥१॥ छाया-पादप्रमार्जमादारभ्य, अन्ते शीर्षदौवारिकाम् । गृहिभिः अन्यतीथिभिः कारयेत् दोषभाग् भवेत् ॥१॥ अवचूरिः- यो यतिः पादप्रमार्जनादारभ्य अन्ते शीर्षदौवारिकाम् गृहिभिः-गृहस्थैः, अन्यतीर्थिकैः तापसादिभिः कारयति, तथा कारयन्तं श्रमणान्तरम् अनुमोदते स प्रायश्चित्तभाग् भवति, तथा तस्याज्ञाभन्नादिका दोषा अपि भवन्ति गृहस्थादिकृतसेवाशुश्रूषादिकार्यस्य भगवता निषिद्धत्वात् । अथ परतीर्थिकादिभिः पादप्रमार्जनादिकं कारयतः को दोषः : इति चेदत्राह-ते अन्य. तीपिका गृहस्था वा यदि प्रमार्जनादिकं करिष्यन्ति तदा ते पादप्रमार्जनादिकरणानन्तरम् पश्चात् हस्तधावनादि कर्म करिष्यन्ति प्रस्वेदमलादिकं साधोः शरीरेऽवस्थितं दृष्ट्वा घावा अशुचय इमे इति कृत्वा भवर्णवादं वदिष्यन्ति, भयतनया वा पादप्रमार्जनादिकं कुर्वन्तः सांपातिकान् जीवान् हन्युः, अथवा बहुमा द्रव्येणायतनया प्रक्षालयन्तः उच्छोलणादोषं कुर्युः, मूमिष्ठान् जीवान् विराधयेयुरिति तस्मात् कारणात् तापसादिभिर्गृहस्थैश्च पादप्रमार्जनादिकं न कारयेदिति ॥ सू० ६८॥ सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा उच्चारपासवणं परिहवेइ परिद्ववेतं वा साइज्जइ ॥ सू०६९॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy