SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चूर्णि भाष्यावचूरिः उ० १४ सू० ३२-५४ पात्रस्यातां पनतद्गत पृथिवीकायादिनिस्सारणनि• ३४१ अत्राह भाष्यकारः - भाष्यम् -- घसणे खालणे लेवकरणे पायगस्स हि । पावई बहुणो दोसा, भिक्खु एत्थ न संसओ || छाया - घर्षणे क्षालने लेपकरणे पात्रकस्य हि । प्राप्नोति बहून् दोषान् भिक्षुरत्र न संशयः ॥ Acharya Shri Kailassagarsuri Gyanmandir अवचूरिः - नवं मया पात्रं लब्धमिति कृत्वा यो भिक्षुः श्रमणः श्रमणी वा घर्षणमेकवारममेकवारं वा करोति तथा नवीनपात्रस्य नवाकारमेव पात्रं सर्वथा तिष्ठतु इति बुद्धया तैलादिना मर्दनं करोति कारयति वा कुर्वन्तं वा अनुमोदते, तथा क्षालनं पात्रस्य सुगन्धिकरणाय दुरभिगन्धनिवृत्तये, नवस्य नवाकारमेव सर्वथा तिष्ठतु इति बुद्धया अचित्तशीतोष्णजलेन करोति परद्वारा वा कारयति तथा कुर्वन्तमनुमोदते, तथा छेपने नवप्राप्तस्य पात्रस्यः नवत्वदृढतायै सुरभिगन्धपात्रस्य सुरभिगन्धस्थापनाय दुरभिगन्धपात्रस्य दुर्गन्धनिवृत्त्यर्थं लोधादिद्रव्येण लेपनं करोति कारयति तथा कुर्वन्तमनुमोदते । एवं बहुदैव सिकसूत्रेष्वपि तैलघृतनवनीतादिना - सकृत् असकृद्वा मर्दनम्, अचित्तशीतोष्णजलेन प्रक्षालनं करोति कारयति कुर्वन्तमनुमोदते स भिक्षुः श्रमणः श्रमणी वा बहून् आज्ञाभङ्गादिकान् आज्ञाभङ्गानवस्था मिथ्यात्वसंयम विराधनात्म विराधना रूपान् दोषान् प्राप्नोति, अत्रैतस्मिन् न कोपि संशयः, एते दोषा भवन्त्येव तेषामिति भावः । इमे चान्येपि दोषा भवन्ति तथा हि-तैलादिना पात्रस्य घर्षणे कृते हस्तायङ्गानामुपघातो भवति, तथा नवनीतादिषु विद्यमानजीवानामप्युपघातो भवति, तथा पात्रस्य दुर्गन्धनिवारणाय आतापस्थाने धूपनादिकरणे सम्पातिकजीवानां विराधनमपि जायते, तथा उत्पीडने च भूमिगता जीवा अपि विराधिता भवन्ति, यस्मात् तैलादिना घर्षणादिकरणे एते पूर्वोक्ता दोषा भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा अपरिकर्मितं यदृच्छया प्राप्तमेव पात्रादिकं धारयेत्, तथा तादृशस्यैवोपभोगमपि कुर्यात् नतु कदाचिदपि सुगन्धितलब्धपात्रादीनां सुगन्धितां दृढयितुं दुरभिसंप्राप्तपात्रस्थ दुर्गन्धस्यापनयनाय तेलादिना बहुदैवसि कतैलादिना मर्दनले पनशीतोष्णान्यतराचितजलेन प्रक्षालनादिकं स्वयं न कुर्यात् न वा परद्वारा कारयेत् न वा तैलादिना मदनादिकं कुर्वन्तं श्रमणान्तरं कथमपि कदाचिदप्यनुमोदयेदिति, किन्तु शास्त्र संमत पद्धतिमाश्रित्यैव संयमाराधनं कर्तव्यं कारयितव्यं कुर्वन्तं वा अनुमोदनीयम् न तु कदाचिदपि स्वमनीषया क्रिमपि तत्र न्यूनाधिकभावः करणीयः, सर्वज्ञभाषितपरमसूक्ष्मविषये स्वमनीषया विचारस्यायोग्यत्वात् ॥ सू० ३१|| सूत्रम् - जे भिक्खू अनंतरहियाए पुढवीए पडिग्गहं आयावेज्ज वा पयावेज्ज वा, आयातं वा पयावेतं वा साइज्जइ ॥ सू० ३२ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy