SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४ निशोधन लोकोत्तरं साधूनाम् । पुनरपि एकैकं द्विविधं द्विप्रकारकं भवति तद्रव्ये तथा अन्यद्रव्ये च । तāध्ये परिवर्तनं यथा पात्रं पात्रेण परिवर्तयति । अन्यद्रव्ये परिवर्तनं यथा पात्रं वस्त्रेण परिवर्तयति, बस्त्रं वा पात्रेणान्येम वा येन केनचित् वस्तुना परिवर्त्तयति । तत्र गृहस्थः संयताय दातुकामः पात्रादिकम् अन्यस्मै गृहस्थाय परिवर्तयितुं ददाति एतत् परिवर्तनं लौकिकम् । तथाहि - कस्मिंश्चित् ग्रामे द्वौ श्रावको आस्ताम् , तयोरेकैका भगिनी अपि मासीत् , तत्रैकस्य भगिनी अपरेण परिणोता, अपरस्य भगिनी अपरेण परिणीता, परस्परं तयोः भगिनीपतित्वेन सम्बन्धो जातः । ततः कालान्तरे तयोरेकस्यान्यो भ्राता संसारस्यासारतां ज्ञात्वा प्रव्रजितो जातः । स सूत्रं सम्यगवीत्याचार्याज्ञया स्वजनवर्गाय दर्शनं दातुं सांसारिकग्रामे गतवान् परन्तु तस्य भगिनी दरिद्रा भासोल् कोदवाद्यन्नेन जीवनं यापयति परन्तु श्रमणाय भ्रात्रे भिक्षार्थ कोद्रवं नीत्वा भ्रातृगृहात् शाल्यन्नमानीतवती, एवंप्रकारेण साध्वर्थमोदनं परिवर्तितं कृतम्, ततो यदा तया स्वामिने भोजनकाले कोद्रयो दत्तस्तदा पृष्टवात् कस्मात् कोद्रवः समागतः ? किन्तु सा नोक्तवती किमपि । ततः क्रोधात् गृहपतिना गृहात् सा निष्कासिता। तच्छुत्या अन्योपि सद्भगिनी निष्कासितवान् , एवं क्रमेण तयोः परस्परं कलहो जातः । ततः स साधुः तयोः कलहं ज्ञात्वा सम्यक्त्वधर्मोपदेशेन क्रोधफलं श्रावितवान् । ततः साधोरुपशमवचनं श्रुत्वा कलहानिवृत्ता जाताः । यस्मादेते कलहादिदोषाः संभवन्ति तस्मात्कारणात् पात्रपिण्डादीनां परिवर्तन न कर्तव्यम् । एवं साधुर्यत्र परस्परं परिवर्तनं पात्रादीनां करोति तत् लोकोत्तरं परिवर्तनम् , एवं साधुभिरपि परस्परं परिवर्तनं न कर्तव्यम् । सू० ३ ॥ सूत्रम्-से भिक्खू पडिग्गहं अच्छिज्ज अणिसिट्ठ अभिहड माहटुदिज्जमाणं पडिग्गा हेइ पडिग्गाहेंतं वा साइज्जइ ॥ मू० ४॥ छाया-यो भिक्षुः प्रतिग्रहमाच्छेद्य अनिसृष्टमभिहतमाहृत्य दीयमानं प्रतिगृहासि प्रतिबन्तं था स्वदते धासू० ४॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'पडिग्गई' प्रतिग्रहं पात्रम् 'अच्छिज्ज' आच्छेद्यम् अन्यस्वामिकं पात्रं साध्वथै बलात् गृहीत्वा दीयते तत् आच्छेद्यम् , अन्यस्वामिकवस्तु बलात्कारपूर्क गृहीत्वा दीयमान तथा स्वकीयमपि वस्तु दासादिहस्ते स्थितं तद् वस्तु तद्धस्तादाच्छिय साधवे यद् दीयमानं तदपि आच्छेद्यमुच्यते 'अणिसिद्रू' अनिसृष्टम्यद्वस्तु अनेकस्वामिकं तत् सर्वेषामाज्ञां बिना अहणम् अनिसृष्टमित्यर्थः, 'अभिडं आहट दिज्जमाणं' अभिमुखमाहृत्य दीयमानं साध्वर्थमभिमुखमागत्य यत् दीयते तादृशम् पात्रादिकम् 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतैऽनुमोदते स प्रायश्चित्तभागी भवति । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy