________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
निशीथसूत्रे
औषधादिसेवनं करोति स भिक्षुः श्रमणः शरीरप्रतिकर्म कुर्वाणः पुनराज्ञाभङ्गादिकान् दोषान्
प्राप्नोति ॥ सू० ४९ ॥
सूत्रम् - जे भिक्खू पासत्थं वंदइ वंदतं वा साइज्जइ || सू० ५०॥
छाया - यो भिक्षुः पार्श्वस्थं वन्दते वन्दमानं वा स्वदते ॥ सु. ५० ॥
चूर्णिः - 'जे भिक्खू' इत्यादि' 'जे भक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्थं' पार्श्वस्थम्, तत्र पार्श्वे ज्ञानदर्शनचारित्रस्य समीपे तिष्ठति न तत्र उद्यमति यः सः पार्श्वस्थः, अथवा 'पाशस्थः' इतिच्छाया, तत्र पाशो नाम बन्धनम्, तत्कारणमनिरत्यादि किमपि पाशपदेन प्रोच्यते, तादृशे पाशे अविरत्यादिरूपे तिष्ठति यः स पाशस्थः, स द्विविधो द्विप्रकारकः देशतः सर्वतश्च तत्र देशतः पार्श्वस्थः शय्यातरपिण्डभोग्यादिभेदैरनेकविधः । सर्वतस्त्रिविकल्पः ज्ञानदर्शनचारित्रभेदेन तत्र ज्ञानविराधको दर्शन विराधकश्चारित्रविराधकश्चेति, तथाहि - ज्ञानस्य विराधकः पार्श्वस्थः १, दर्शनातिचारे वर्तते २, चारित्रे स्थितो न भवति, अतोऽतिचारजातं परित्यजति स पार्श्वस्थः ३, तादृशं पार्श्वस्थम् 'वंदइ' वन्दते विधिपूर्वकं वन्दननमस्कारादिकं करोति तथा 'वंदेतं वा साइज्जर' वन्दमानं स्वदते पार्श्वस्थस्य वन्दनं कुर्वन्तं श्रमणान्तरमनुमोदते स प्रायश्चित्तभागी भवति तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ५०॥
"
सूत्रम् — जे भिक्खू पासत्थं पसंसइ पसंसंतं वा साइज्जइ ॥ सू०१५ छाया - यो भिक्षुः पार्श्वस्थं प्रशंसति प्रशंसन्तं वा स्वदते ॥ ० ५१ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्थं' पार्श्वस्थम् 'पसंसद्' प्रशंसति 'एष शुद्धचारित्राराधकः' इत्येवंरूपां प्रशंसां करोति तथा 'पसंसंतं वा साइज्जइ' प्रशंसन्तं वा स्वदते, यो हि श्रमणः पार्श्वस्थस्य प्रशंसां करोति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ५१ ॥
सूत्रम् - जे भिक्खू कुसीलं वंदइ वेदंतं वा साइज्जइ ॥ सू० ५२ ॥ जे भिक्खू कुसीलं पसंसइ पसंसंतं वा साइज्जइ ॥ सू० ५३ || जे भिक्खू ओसणं वंद वंदतं वा साइज्जइ ॥ सू० ५४ || जे भिक्खू ओसण्णं पसंसइ पसंसंतं वा साइज्जइ । सू० ५५॥ जे भिक्खू संसत्तं वंदन वंदतं वा साइज्जइ || सू० ५६ ॥ जे भिक्खु संसत्तं पसंसइ पसंसंतं वा साइज्जइ ॥ सू० ५७ ॥ जे भिक्खू अहाछंद वंद वंदतं वा साइज्जइ ॥ सू० ५८ ॥ जे भिक्खू अहाछंदं पसंसइ पससंतं वा साइज्जइ || सू० ५९ || जे भिक्खू नितियं
For Private and Personal Use Only