SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२० निशीथसूत्रे सूत्रम् — जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा निहिं पवेएइ पवेतं वा साइज्जइ ॥ सू० ३४ ॥ छाया - यो भिक्षुरन्ययूथिकानां वा गार्हस्थिकानां वा निधि प्रवेदयति प्रवेदयन्तं वा स्वदते ॥ सू० ३४ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियाण वा' अन्ययूथिकानां वा 'गारत्थियाण वा' गार्हस्थिकानां गृहस्थानां वा 'निहि पवेइ' निधिम् प्रवेदयति, तत्र निधानं निधिः निहितं स्थापितं द्रविणजातमित्यर्थः प्रवेदयति, मन्त्रादिना ज्ञात्वा भूमिनिहितं द्रव्यं कथयति प्रकाशयतीति तथा 'पवेतं वा साइज्जइ' प्रवेदयन्तं कथयन्तं श्रमणान्तरं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्तीति । Acharya Shri Kailassagarsuri Gyanmandir अत्राह भाष्यकार ः— भाष्यम् -- घाउं सुवण्णजणयं, निहिं वा पवेयए य जे भिक्खू । गिरिणष्ण तित्थियाणं सो पावर आणभंगाई || छाया - धातु सुवर्णजनकं निधि वा प्रवेदयेत् यो भिक्षुः । गृहिणामन्यतीथिकानां स प्राप्नोति आशाभङ्गादिम् ॥ अवचूरिः - यो भिक्षुः श्रमणः श्रमणी वा धातुं यस्मिन् धम्यमाने सुवर्णादिकं पतति स धातुविशेषः, तं पूर्वसूत्रोक्तं त्रिविधमपि, तथा निधिं वा, तत्र निधानं निधिः निहितं स्थापितं द्रविणजातं गृहिणां गृहस्थानामन्यतीर्थिकानां तापसादीनां प्रवेदयेत् कथयेत् स श्रमणः आज्ञाभङ्गादिकान् दोषान् प्राप्नोति, तत्र धातुखिप्रकारको भवति पाषाणरसमृत्तिकाभेदात्, तत्र यत्र पाषाणे धम्यमाने सुवर्णादिकं पतति स पाषाणघातुः १, येन धातुजलेनासितं ताम्रादिकं सुवर्णा. दिकं भवति स रसधातुरिति कथ्यते २ या तु मृत्तिका योगयुक्ता ध्मायमाना वा सुवर्णादि भवति स मृत्तिकाधातुः ३ । तं धातुं, तथा निधिः स्थापितद्रव्यजातं स निधिः मनुष्यदेवतैः अधिष्ठितोऽनधिष्ठितो वा भवति, तथा निधिर्जले वा भवति, स्थळे वा भवति, तत्र यो निधिः स्थले भवति स द्विविधः निक्षिप्तो वा अनिक्षिप्तो वा, सर्वोप्ययं निधिः स्वरूपतो द्विप्रकारको भवति कृतरूपोऽकृतरूपश्च । धातुनिधिकथने इमे दोषाः - धातूनामग्निना घमने षड्जीवनिकायविराधना भवति । निधिदर्शने तस्य देवाधिष्ठितत्वेनानेके विघ्नाः समुद्भवन्ति । राज्ञा ज्ञाते राजदण्डमपि प्राप्नुयात् । तत्र चक्रध्वजो राजा दृष्टान्तः तथाहि - आसीत् मगधदेशे पुष्पपुरनगरे चक्रध्वजो राजा, तेन राज्ञा चक्राङ्किता अनेके दीनारा आनाय्य निधानत्वेन स्थापिताः निधानस्थापनानन्तरं बहुदिनानि व्यतीतानि तदनन्तरं For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy