SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धूर्णिभाष्यावरिः उ०१३ सू० १३-१६ जन्यतोधिकादीनामागााढाविषचनात्याशातनानि० ३१३ जे भिखू अण्णउत्थियं वा गारत्थियं वा अण्णयरीए अच्चासायणाए अच्चासाएइ अच्चासाएंतं वा साइज्जइ ॥ सू०१६॥ छाया-यो भिक्षुरन्यतीथिकं वा गाईस्थिकं वा आगाढं वदति धदन्तं वा स्वदते ॥सू० १३॥ यो भिक्षुरन्यतीथिकं वा गाईस्थिकं वा परुष वदति घदन्तं वा स्वदते ॥१४॥ यो भिक्षुरन्यतीथिकं वा गार्हस्थिकं वा आगाढपरुष वदति वदन्तं वा स्वदते ।। सू० १५॥ यो भिक्षुरन्यतीथिकं वा गाईस्थिकंवा अन्यतरया अत्याशातनया अत्याशातयति भत्याशातयन्तं वा स्वदते ॥ सू० १६॥ चूर्णी-जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा' अन्ययूथिकं वा तापसादिकं 'गारत्थियं वा' गार्हस्थिकं गृहस्थं वा 'आगाई आगाढम्-आगाढवचनं कोपयुक्तवचनमित्यर्थः 'वयई' वदति-कथयति 'वयंतं वा साइज्जई' बदन्तमागाढवचनमन्यतीथिंक गृहस्थं प्रति वा वदन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति ॥ सू० १३॥ एवं 'फरुसं' परुषं कठोरवचनं वदति वदन्तं वा स्वदते ॥ सू० १४।। तथा 'आगाढफरुसं' आगाढपरुषंकोपयुक्तकठोरवचनं वदति वदन्तं वा स्वदते सः ॥ सू० १५॥ एवम्- अन्यतीर्थिक गृहस्थं वा 'अण्णयरीए-अच्चासायणाए' भन्यतरया, अन्यतीथिकाशातना-अन्यतीथिकं प्रति 'संसारस्वरूपं ज्ञात्वापि त्वं जिनोक्तं धर्म नाचरसि, सावधक्रियामवलम्बसेऽतस्त्वां धिक्' इत्येवं कथनरूपा । गृहस्थाशातना-गृहस्थं प्रति 'त्वं गृहस्थः सन् द्वादश व्रतानि नाचरसे, रात्रिभोजनसंरम्भसमारम्भादिकार्य कुरुषेऽतस्त्वां धिक्' इत्येवं कथनरूपा, इत्यादिस्वरूपया एकया कयाचिदाशातनयाऽपि 'अच्चासाएई' अत्याशातयति-अन्यतीर्थिकस्य गृहस्थस्य वा आशातनां करोति 'अच्चासाएंत' अत्याशातयन्तं वा आशातनां कुर्वन्तं वा 'साइज्जई' स्वदते स प्रायश्चित्तभागी भवति ॥१६॥ एतदागाढादिकं कस्मिन् विषये किमर्थं वा नो वदेत् ! इत्यत्राह भाष्यकार:-'जाइकुल' इत्यादि। भाष्यम्--जाइ-कुल-रुव-भासा, गण-बल-परियाग-जस-तवो-लाभा । सत्त-वय-बुद्धि-धारण,-उग्गह-सीलं-समायारो ॥१॥ एएस विसएसु य, गारत्थिय अनउत्थियं वावि । आगाढं फरुसं नो, वएज्ज आसायए नो वा ॥२॥ एएहिं वयणेहि, साह कुप्पेज किं पुणो अन्नो। एवं मम्मे वयणे, दोसा मरणाइया बहवो ॥३॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy