SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ त्रयोदशोद्देशकः ॥ गतो द्वादशोद्देशकः, सम्प्रति त्रयोदशोदेशको व्याख्यायते, तत्र द्वादशोदेशकान्तिमसूत्रेण सहास्य त्रयोदशोद्देशकादिसूत्रस्य कः सम्बन्धः - इति चेदाह भाष्यकार - भाष्यम् - नावाइणा उत्तरिय, काउस्सगं करे मुणी । कत्थ कुज्जा न वा कुज्जा, संबंधो ईरिओ इहं || छाया -- नावादिना उत्तीर्य कायोत्सर्ग कुर्यात् मुनिः । कुत्र कुर्यात् न वा कुर्यात् सम्बन्ध ईरित इह ॥ अवचूरि : - 'नावाइणा' इत्यादि । द्वादशोदेशकस्यान्तिमसूत्रे गङ्गादिका पञ्च महानद्यो वर्णिताः, ता नदीः कारणवशात् मासाभ्यन्तरे द्विवारं त्रिवारं वा उत्तरति तदा तस्य प्रायश्चित्तं कथितम्, तत्र नावादिना ता महानदीं समुत्तीय पारं गत्वा ऐयपथिकः कायोत्सर्गः अवश्यमेव कर्तव्यः । स च कुत्र स्थाने कर्तव्यः कुत्र न कर्तव्यः : इति विचारणायां सचित्तपृथिव्यां न कर्तव्यः, एतस्य निषेधस्य वर्णनाय त्रयोदशोद्देशकः प्रारभ्यते, अस्मिन् उद्देश के सचित्तपृथिव्यादिषु समुपविश्यैर्यापथिकाद्यावश्यक कार्यकरणे प्रायश्चित्तं कथयिष्यते, अयमेव सम्बन्धः पूर्वापरसूत्रयोर्भवति, तदनेन सम्बन्धेनायातस्यास्य त्रयोदशोद्देशकस्य प्रथमसूत्रमाह सूत्रम् -- जे भिक्खू अणंतरहियाए पुढवीए ठाणं वा सेज्जं वा णिसेज्जं वा णिसीहियं वा चेएइ चेतं वा साइज्जइ ॥ सू० १॥ छाया -यो भिक्षुरनन्तरहितायां पृथिव्यां स्थानं वा शय्यां वा निषद्यां वा नैषेधिक वा चेतयते चेतयमानं वा स्वदते || सु०१ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अणं तरहियाए पुढवीए' अनन्तरहितायां पृथिव्याम् अनन्तेन जीवेन रहिता किन्तु असंख्येयेन जीवेन युक्तता अनन्तरहिता सचित्तेत्यर्थः यतो हि पृथिवी असंख्यात जीवात्मिका भवति न त्वनन्तजीवात्मा, अतः अनन्तरहितेत्युक्तम्, यद्वा-न अन्तरं व्यवधानम् अनन्तरं जीवन्यवधानरहितं यथा स्यात्तथा हिताः स्थिता अनन्तरहिता व्यवधान रहितजीवयुक्ता सर्वात्मना सचित्तेत्यर्थः । तस्यां सचित्तपृथिव्युपरीत्यर्थः 'ठाणं वा' स्थानं वा, तत्र स्थानं कायोत्सर्गः तत् कायोत्सर्गलक्षणं स्थानम् ऊर्ध्वत्वेनावस्थितिरूपं करोति इत्यग्रिमेण सम्बन्धः, उपलक्षणत्वात् त्वग्वर्तनादिकमपि करोति 'सेज्जं वा' शय्यां वा तत्र शय्या शरीरप्रमाणा तां, शयनं वा करोति 'णिसेज्जं वा' निषधां वा उपवेशनं वा 'निसीहियं वा' नैषेधिकीं वा प्राणातिपातादिनिषेधपूर्वकं जायमाना किया स्वाध्यायरूपा नैषेधिकी, ताम् 'चेपइ' चेतयते करोति 'चेएतं वा साइज्ज' चेतयमानं वा स्वदते । यो हि श्रमणः ३९ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy