________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ द्वादशोद्देशकः॥ ब्याख्यात एकादशोद्देशकः, साम्प्रतमवसरप्राप्तो द्वादशोदेशकः व्याख्यायते, तत्र-एकादशोदेशकस्यान्तिम सूत्रेण सह द्वादशोदेशकस्यादिसूत्रस्य कः सम्बन्ध इति चेदत्राह भाष्यकारःभाष्यम्-मरणपसंसा नो चे, कप्पइ भिक्खुस्स तं कहं काउं ।
बद्धस्स होज्ज मरणं, कत्थइ तस्स य निसेहोऽत्थ ॥१॥ छाया-मरणप्रझंसी नो चेत् कल्पते भिक्षोः तत् कथं कर्तुम् ।
बद्धस्य भवेन्मरणं, कथ्यते तस्य च निषेधोऽत्र ॥१॥ अवचूरिः- गिरिपतनादिकं बालमरणं प्राणातिपात इति कृत्वा यदि तस्य प्रशंसनं न कल्पते तदा तत् मरणं कत्तुं कथं कल्पते ! तत्तु सुत्तरां नैव कल्पते, तच्च मरणं बद्धस्य भवेत् इत्यतोऽत्र द्वादशोद्देशके तस्य बन्धस्य निषेधः कथ्यते, एष एव एकादशोदेशकेन सहास्य द्वादशोदेशकस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य द्वादशोद्देशकस्येदमादिसूत्रम्- 'जे भिक्खू कोलुणवडियाए' इत्यादि।
सूत्रम्-जे भिक्खू कोलुणवडियाए अण्णयरं तसपाणजाई तणपासरण वा मुंजपासएण वा कट्ठपासएण वा चम्मपासरण वा वेत्तपासएण वा सुत्तपासएण वा रज्जुपासएण वा बंधइबंधतं वा साइज्जइ । मू०१॥
छाया—यो भिक्षुः कारुण्यप्रतिक्षया अन्यतरां त्रसप्राणजाति तृणपाशकेन वा मुजपाशकेन वा काष्ठपाशकेन वा चर्मपाशकेन वा वेत्रपाशकेन वा सूत्रपाशकेन वा रज्जुपाशकेन वा बध्नाति बघ्नन्तं वा स्वदते ॥सू० १॥
___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कोलुणवडियाए' कारुण्यप्रतिज्ञया-करुणाबुद्धया, तत्र करुणाया भावः कारुण्यं तस्य प्रतिज्ञेति वाञ्छा कारुण्यप्रतिज्ञा, तया शय्यातरकरुणाबुद्धया यदि बुभुक्षितो वत्सः स्वेच्छया दुग्धं पास्यति तदा दोहनसमये गृहस्थस्याल्पं दुग्धं मिलिष्यति ततो गृहस्थत्त्याधिकं दुग्धं भवतु इति गृहस्थस्य प्रसन्नतार्थ, तथा यदि गृहस्थः प्रसन्नो भविष्यति तदा मह्यं अन्यस्मै वा साधवे प्रभूतमशनादि वसत्यादिकं च दास्यतीति गृहस्थानुग्रहार्थ 'अण्णयरं तसपाणजाई अन्यतरां सप्राणजाति गोमहिष्यजाप्रमृतिरूपां 'तणपासएण' तृणपाशकेन वा, तत्र तृणो दर्भादिः तस्य पाशको बन्धनम् , तेन तृणबन्धनेन बध्नातीत्यग्रेण सम्बन्धः । 'मुंजपासरण वा' सुजपाशकेन वा, तत्र मुञ्जो नाम तृणविशेषः तस्य पाशकेन बन्धनेनेत्यर्थः, 'कट्टपासरण वा' काष्ठपाशकेन वा काष्ठबन्धनेनेत्यर्थः 'चम्मपासरण वा' चर्मपाशकेन वा मृगादिचर्मबन्धनेन 'वेत्तपासएण वा क्षेत्रपाशकेन वा, तत्र वेत्रो
For Private and Personal Use Only