SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावरिः उ० ११ सू० ८७-९१ सचेलाचेलपरस्परसहवासनिषेधः २७७ छाया--यो भिक्षतिकेन वा अज्ञातकेन वा उपासकेन वा अनुपासकेन वा अनलेन वैयावृत्यं कारयति कारयन्तं वा स्वदते ॥सू० ८६।। चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णायगेण वा' ज्ञातकेन वा-स्वजनेन वा 'अणायगेण वा' अज्ञातकेन अस्वजनेनाऽपरिचितेन वा तथा 'उवासगेण वा' उपासकेन श्रावकेण आराधितश्रुतचारित्रलक्षणधर्मेण इत्यर्थः 'अणवासगेण वा' अनुपासकेन श्रावकभिन्नेन परतीर्थिकेनेत्यर्थः 'अणलेण' अनलेन अयोग्येन उपलक्षणाद् योग्येनापि केनचिदपि गृहस्थेन स्वकीयम् 'वेयावच्चं' वैयावृत्त्यं सेवाशुश्रषादिलक्षणम् कारावेह' कारयति 'कारावेतं वा साइज्जई' कारयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू०८६।। सूत्रम्-जे भिक्खू सचेले सचेलगाणं मज्झे संवसइ संवसंतं वा साइज्जइ ॥ सू० ८७॥ छाया--यो भिक्षुः सचेलः सचेलिकानां मध्ये संवसति संवमन्तं वा स्वदते ॥८॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'सचेले' सचैलः, तत्र चेलं वस्त्रं तद्वान् सचेलः स्थविरकल्पोत्यर्थः ‘सचेलगाणं' सचेलकानां स्थविरकल्पिकानां भिन्नसामाचारीकाणाम् 'मज्झे' मध्ये 'संवसई' संवसति निवासं करोति 'संवसंत वा साइज्जई' संवसन्तं वा स्वदते, यो हि सचेलः स्थविरकल्पी श्रमणः सचेलकानां भिन्नसामाचारीक स्थविरकल्पिसंयतानां मध्ये निवासं करोति तमनुमोदते स प्रायश्चित्तभागी भवति । भिन्नसामाचारीकसंयतैः सह वासं कुर्वतोऽनेकप्रकारकदोषसंभवात् , अतो न तैः। सह कदाचिदपि संवासो विधेय इति ।। सू० ८७॥ सूत्रम्-जे भिक्खू सचेले अचेलगाणं मज्झे संवसइ संवसंतं वा साइज्जइ ॥सू० ८८|| छाया-यो भिक्षुः सचेलोऽचेलकानां मध्ये संवसति संवसन्तं वा स्वदते ॥८॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सचेले' सचेल:- स्थविरकल्पिक इत्यर्थः 'अचेलगाणं' अचेलकानां जिनकल्पिकानाम् 'मझे मध्ये 'संवसई' संवसति निवास करोति 'संवसंत वा साइज्जई' संवसन्तं अचेलकानां मध्ये निवासं कुर्वन्तं सचेलं स्वदते अनुमोदते, यो हि स्थविरकल्पी जिनकल्पिकानां मध्ये निवासं करोति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८८।। सूत्रम्--जे भिक्खू अचेले सचेलगाणं मज्झे संवसइ संवसंत वा साइज्जइ ॥ सू०८९॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy