________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्र तत् अभूतपूर्व भूतपूर्व च विस्मापनं भवति । तत्र यद् विस्मापनं विद्यामन्त्रेन्द्रजालिकादिप्रयोगरूपम् आत्मना अकृतपूर्वम् , अन्येन वा क्रियमाणं न दृष्टं न श्रुतं वा तद् अभूतपूर्व विस्मापनं कथ्यते । एतद्विपरीतं यत् स्वयं कृतं परेण वा क्रियमाणं दृष्टं श्रुतं वा तादृशं विस्मापने भूतपूर्व कथ्यते । एतादृशं विस्मापनं स्वस्य परस्य वा यो भिक्षुः करोति कारयति वा कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति । तथा एतादृशविस्मापनेन हर्षातिरेकात् आश्चर्यातिरेकाद्वा कदाचित स्वयमेव विक्षिप्तचिचो भवेत् ततः स विक्षिप्तचित्तेन चान्यैः सहाधिकरणं करोति, अधिकरणे च जाते सूत्रार्थयोनिः संयमात्मविराधना च स्यात्, तथा परो वा कदाचित् तादृशमाश्चर्यादिकं दृष्ट्वा श्रुत्वा च विक्षिप्तचित्तो भवेत् तत्रापि एते दोषा भवेयुः । असद्भुते च विस्मापने मायाकरणं मृषावादोऽपि भवेत् । यस्मादेते दोषा विस्मापने भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा कदाचिदपि स्वात्मानं वा परं वा न विस्मापयेदिति भावः ॥सू० ६७॥
सूत्रम्--जे भिक्खू अप्पणं विप्पारियासेइ विपरियासंतं वा साइज्जइ ॥सू०६८॥
छाया-यो भिक्षुरात्मानं विपर्यासयति विपर्यासयन्तं वा स्वदते ॥सू०६॥
ची-जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अप्पाणं' आत्मानं स्वात्मानम् 'विप्परियासेइ' विपर्यासयति, तत्र विपर्यासो विपर्ययकरणं, यो द्रव्यादिभावो येन प्रकारेण स्थितः तं भावम् अन्यथा प्रकारान्तरेण मनसा भणति क्रियायां वा परिणमयति, यथा जीवमजीवं प्ररूपयति, अजीवं जोवं प्ररूपयति धर्ममधर्म प्ररूपयति, अधर्म धर्ममित्यादि । अन्यस्य वा पुरतः प्ररूपयति, तथा 'विपरियासंतं वा साइज्जइ' विपर्यासयन्तं वा स्वदते, यो हि अन्यथा स्थितस्य भावस्य प्रकारान्तरेण प्रज्ञापनादिकं करोति तं योऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ६८॥
सूत्रम्-जे भिक्खू परं विपरियासेइ विपरियासंतं वा साइज्जइ ॥ सू० ६९॥
छाया-यो भिक्षुः परं विपर्यासयति विपर्यासयन्तं वा स्वदते ।सू० ६९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परं' परं-स्वस्मादन्यं श्रमणं श्रावकं वा 'विपरियासेइ' विपर्यासयति अन्यथास्थितस्य द्रव्यादिभावस्य प्रकारान्तरेण प्ररूपणां करोति तथा 'विपरियासंतं वा साइज्जई' विपर्यासयन्तं वा स्वदते । स प्रायश्चित्तभागी भवति ।।
For Private and Personal Use Only