SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिमाप्यायचूरिः उ० १० सू० ३६-३८ मुखागतोगारपुनर्मिलन-ग्लानागवेषणादिनि० २४७ छाया- यो भिक्षुः रात्रौ वा विकाले वा सपानः लभोजन उद्गार आगच्छेत् तं विषिचन् वा पिशोधयन् वा मातिकामति, तम् उद्गीर्य प्रत्यवगिलन् रात्रिभोजनप्रतिसेवनाप्राप्तः यस्तं प्रत्ववगिलति प्रत्यवगिलन्तं वा स्वदते ॥ सू०३६ ॥ चर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'राओ वा' रात्रौ वा 'वियाले वा विकाले वा संध्यासमये सूर्योदयात्प्राग वा तस्य श्रमणस्य 'सपाणे' सपान:-पानं जलं तेन सहितः सपानः 'सभोयणे वा' सभोजनो वा यद् भोजनं भुक्तमोदनादिकं तेन सहितः सभोजनः, उपलक्षणाद् उभयप्रकारो वा 'उग्गाले' उद्गारः 'डकार' इति लोकप्रसिद्धः स आगच्छेत् मुस्त्रमध्ये आगच्छेत् 'तं विगिंचमाणे' तं सजलं सभोजनमुद्गारम् विविचन् परित्यजन् मुखाद्-बहिनिष्कासयन् 'विसोहेमाणे विशोधयन् मुखस्य स्वच्छता वस्त्रादिना संपादयन् श्रमणः श्रमणी वा 'नाइक्कामइ' नातिकामति नोल्लंधयति तीर्थंकरस्याज्ञाम् 'रात्रौ न भोक्तव्यमित्याकारकं यदस्ति तस्यातिक्रमणं न करोति सपानसभोजनोद्गारस्य मुखात् निष्काशनात् मुखस्य विशुद्धिकरणाच्चेत्यर्थः 'तं' तम् अथ यदि स श्रमणो रात्री विकाले वा समागतं सपानं सभोजनमुद्गारम् ‘उग्गिलित्ता पच्चोगिलमाणे' उद्गीर्य्य प्रत्यवगिलन् यदि तं सपानं सभोजनमुद्गारं मुखादहिन निःसारयति किन्तु पुनः तदुद्गारस्थं जलं भोजनं च गलादधः कुर्वन् स 'राइभोयणपडिसेवणपत्चे' रात्रिभोजनप्रतिसेवनाप्राप्तः रात्रिभोजनजनितदोषयुक्तो भवति अतो यदि 'जो तं पञ्चोगिलइ पच्चोगिलंतं वा साइज्जइ' यः कोऽपि श्रमणः श्रमणी वा तदुद्गारस्थं जलं भोजनं प्रत्यवगिलति गलादधः करोति तथा प्रत्यवगिलन्तं वा स्वदते अमुमोदते स प्रायश्चित्तभागी भवतीति । स्. ३६॥ सूत्रम्-जे भिक्खू गिलाणं सोच्चा णच्चा ण गवेसइ ण गवेसंतं वा साइज्जइ ॥ सू०३७॥ छाया-यो भिक्षुः ग्लानं श्रुत्वा शात्वा न गवेषयति न गवेषयन्त वा स्वदते ॥सू.३७॥ चूर्णी-'जे मिक्खू' इत्यादि । 'जे भिक्खू' य, कश्चिद् मिक्षुः श्रमणः श्रमणी वा 'गिलाणं ग्लानम् तत्र यस्य रोगेण आसङ्केन वा शरीरं क्षीणं भवति शरीरस्य क्षयो बा भवति स ग्लामः, तादृशं ग्लानं सरोगातङ्कम् समानसामाचारीकं स्वगच्छीय वा श्रमणं 'सोच्चा' श्रुत्वा अन्यमुखात् 'णरचा' ज्ञात्वा स्वयमेव वा ज्ञानविषयोकृत्य 'ण गवेसई' न गवेषयति नान्वेष. यति तथा 'ण गवसंत वा साइज्जई' न गवेषयन्तं वा स्ववते अनुमोदते । यो भिक्षुः स्वग्रामे खोपाश्रये परग्राम परोपाश्रये वा स्वगच्छीयः परगच्छीयो वा समानसामाचारीकः ममुकः श्रमणो ग्लानो जात इति परेभ्यः श्रुत्वा स्वयमेव वा ज्ञात्वा तस्य गवेषणं तत्स्थितेर्जिज्ञासारूपं तद्वैयाव For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy