SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिभाष्यावरिः उ०१० स०३२-३३ उद्गतवृत्तिकादेः सूर्यानुद्गमनादिनिश्चये भोजननि० २४३ संकल्पम्-उद्घातिकसंकल्पमनुद्घातिकसंकल्पं चेति द्विकं च, एवं द्वादशसूत्रीकथितं सर्वमेतत् श्रुत्वाऽन्यसकाशात् , स्वयं वा ज्ञात्वाऽपि तेन तादृशेन मुनिना सह मण्डलीमध्ये एकस्यां मण्डल्यां स्थित्वा भुङ्क्ते अशनादिचतुविधाहारं करोति, उपलक्षणात् वस्त्रपात्रादीनामादान: प्रदानं वा करोति स मिथ्यात्वमाज्ञाभङ्गादिदोषांश्च प्राप्नोतीति भाष्यगाथाद्वयार्थः ॥१॥२॥ सूत्रम्--जे भिक्खू उग्गयवित्तिए अणथमियमणसंकप्पे संथडिए णिब्वितिगिच्छासमावण्णेणं अप्पाणेणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता संभुंजइ संभुंजंतं वा साइज्जइ, अह पुण एवं जाणेज्जा अणुग्गए सूरिए अत्थमिए वा से जं च मुहंसि या जं च पाणिसि वा जं च पडिग्गहंसि वा तं च विगिंचिय विसाहिय तं परिट्ठावेमाणे णाइकमइ, जो तं भुंजइ भुंजंतं वा साइज्जइ ॥सू० ३२॥ छाया यो भिक्षुरुद्गतवृत्तिकः अनस्तमितमनःसंकल्पः संस्तृतो निर्विचिकिसालमापन्नेमात्मना अशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृह्य भुङ्क्ते संभुः जानं धा स्वदते, अथ पुनरेवं जानीयात्-अनुद्गतः सूर्य: अस्तमितो था अथ यच्च मुझे वा यच्च पाणी वा यच्च प्रतिग्रहे वा तं च विबिच्य विशोध्य तं परिष्ठापयन् नातिकामति, यस्तं भुक्ते भुज्जानं वा स्वदते ॥सू० ३२॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'उग्गयवित्तिए' उद्गतवृत्तिकः उद्गते सूर्ये वृत्तिवर्तनं शरीरयात्रार्थ संयमयात्रार्थ च व्यवहारो यस्य स उद्गतवृत्तिकः उद्गते एव सूर्ये आहारविहारादिसकलसाधुक्रियाकारकः 'अणत्यमियमणसंकप्पे' अनस्तमितमनःसंकल्पः-अनस्तमिते अस्तं न गते सूर्ये एव मनःसकल्पः आहारविहारादिविषयको मनोविचारो यस्य स अनस्तमितमनःसंकल्पः सूर्यास्तात्पूर्वमेव सकलसाधुक्रियाकरणशीलमनोविचारवान् ‘संथडिए' संस्तृतः धृतिबलसंहनादिना समर्थः अध्वप्रतिपन्नः क्षपकः लानो वा न भवेदिति भावः, एतादृशो भिक्षुः 'णिन्वितिगिच्छासमावन्नेणं अप्पाणेणं' निर्विचिकित्सासमापन्नेन आत्मना, विचिकित्सा-संदेहः, न विचिकित्सा निर्विचिकित्सा-सूर्योदिता-स्तमनविषयकसन्देहराहित्यं, तां समापन्नेन प्राप्तेन सूर्यस्य अनुद्गतत्वास्तमितत्वसन्देहराहित्येन मात्मना उद्गते सूर्ये अनस्तमिते वा सूर्ये यदि 'असणवा ४ ।' अशनादिचतुर्विधमाहारं 'पडिग्गाहित्ता' प्रतिगृह्य यदा 'संझुंजइ' संभुङ्क्ते 'संधुंजवं वा साइज्जइ' संभुञ्जानं वा स्वदते अनुमोदते तदा स भिक्षुः 'अहपुण' अथ पुनः अथ शब्दो विषयान्तरसूचकस्तेन आहारं कर्तुं प्रारब्धस्तत्समये पुनः ‘एवं जाणेज्जा' एवं जानीयात् For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy