SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ ANAM निशीथसूत्र छाया-यो भिक्षुर्दिशमपहरति अपहरन्तं वा स्वदते । सू० १३॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिसं' दिशमाचार्यम् 'अवहरइ' अपहरति--पूर्वसूत्रोक्तप्रकारेण नानाविधवाक्यप्रबन्धं कथयित्वाऽन्यगच्छे नयति तथा 'अवहरंतं वा साइज्जइ' अपहरन्तम् अन्यगच्छे नयन्तं स्वदते अनुमोदते स प्रायश्चित्तभागो भवति । अत्राह भाष्यकार:भाष्यम्-रागेण दोसेण दिसावहारं, करेइ वा कारइ जो य भिक्खू । आणाणवत्थाइ विराहणं च, मिच्छत्तदोसं समुवेइ सोऽत्थ ॥ छाया--रागेण द्वेषेण दिशापहारं करोति वा कारयति यश्च भिक्षुः। ___ आशानवस्थादि विराधनं च मिथ्यात्वदोषं समुपैति सोऽत्र ॥ अवचूरिः—यः कश्चित् श्रमणः श्रमणी वा रागेण-अन्यगच्छरागेण द्वेषेण-स्वगच्छे सभुत्पन्नद्वेषेण वा दिशापहार-आचार्यादेरपहारम्-अन्यगच्छे नयनरूपं करोति, अथवा अन्यद्वारा कारयति तदा सोऽत्र विषये आज्ञाभङ्गानवस्थादिदोषान् संयमात्मविराधनां मिथ्यात्वदोषं च समुपैति प्राप्नोति । शिष्य आचार्य नानाविधवाक्यैः प्रतार्यान्यगच्छे नयति तदा भूतपूर्वगच्छ आचार्यरहितो भवति तेन तद्गच्छे धर्मोपदेशकाभावात् धर्मे लोकानां ग्लानि निश्च भवति, गच्छस्य निराधारकरणे तीर्थकराज्ञाभङ्गो भवेत् , तं दृष्ट्वाऽन्योऽप्येवं करोति, तं दृष्ट्वा चान्यः, एवमनवस्थादोषः समापद्यते । गच्छविराधना च भवति धर्महान्या संयमविराधनाऽवश्यम्भाविनी, आचार्यापहारे कारणभूतं शिष्यं विज्ञाय गच्छवासिनो लोकास्तं ताडयेयुरपीत्यात्मविराधनासंभवः, गच्छनिन्दायां मिथ्यावदोषमपि स भजते, इत्याद्यनेके दोषा संभवन्ति ततो दिशापहारं न कुर्यात् नापि कारयेत् कुर्वन्तं वा नानुमोदयेदिति भावः ॥१३॥ मुत्रमजे भिक्खू बहियावासियं आएसं परं तिरायाओ अविफालेत्ता संवसावेइ संवसावेंतं वा साइज्जइ ॥ सू० १४॥ छाया-यो भिक्षुर्बहिर्वासिकमादेशं परं त्रिरात्रात् अविस्फाल्य संवासयति संवासयन्तं वा स्वदते ॥सू०१४॥ चूर्णी:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बहियावासियं' बहिर्वासिकं बहिः स्वगच्छाद् बहिर्वस्तुं शीलं यस्य स बहिर्वासी स एव बहिर्वासि कस्तम् अन्यगच्छवासिनं 'आएसं' आदेशम् आगतः सन् आदेशमाज्ञां करोति स आदेशः प्राघू. र्णकः साधुस्तमादेशं 'अविफालेत्ता' अविस्फाल्य अप्रकट्य तदागमनकारणमपृष्ट्वेत्यर्थः यथा हे भदन्त ! त्वं किंनिमित्तमत्रागतोऽसि ?, त्वमस्माकमज्ञातोऽसि !, कोदग्गच्छवासी त्वम् कुत आगतः? For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy