SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घर्मिमाप्यावरिः उ०९ सू० १-५ राजपिण्डाऽन्तपुरप्रवेशतदक्षिकानीताहारनिषेधः २०३ चूर्णीः-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रायपिंडं भुंनइ' राजपिण्डं, तत्र राज्ञामुपलक्षणादमात्यादीनां च पिण्डम् अशनादिकं चतुर्विधमाहारजातं, तथा वनपाचदिकमष्टप्रकारकं पिण्डम् भुङक्ते राजादिपिण्डानामष्टप्रकारकाणामुपभोगं करोति कारयति वा तथा 'भुंजतं वा साइज्जइ' भुञानं वा स्वदते । यो हि राजादीनामष्टप्रकारकाशनादिपिण्डमध्यात् यत् किमप्यन्यतरं पिण्डमुपभुङ्क्ते तस्यानुमोदनं करोति स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्तीति ॥सू० २॥ सूत्रम्-जे भिक्खू रायंतेपुरं पविसइ पविसंतं वा साइज्जइ ॥सू०३॥ छाया-यो भिक्षुः राजान्तःपुरं प्रविशति प्रविशन्तं वा स्वदते ॥सू० ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘रायंतेपुरं पविसई' राजान्तःपुरं प्रविशति, तत्र राज्ञोऽन्तःपुरं राजान्तःपुरम् , तत् त्रिप्रकारकम् -प्राचीनान्तःपुरम्, नवान्तःपुरम्, कन्यान्तःपुरं च, तदन्तःपुरं पुनः क्षेत्रत एकैकं द्विप्रकारकं भवति-स्वस्थाने परस्थाने च, तत्र स्वस्थानं राजगृहं (राजभवन), परस्थानं वसन्तादिसमये उद्यानादिगतम् , तादृशं राजान्तःपुरमशनादिलोभेन यः येन केनापि कारणेन वा प्रविशति, तथा 'पविसंतं वा साइज्जई' प्रविशन्तं राजान्तःपुरे प्रवेशं कुर्वन्तं श्रमण स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गाऽनवस्थामिथ्यात्वसंयमविराधनात्मविराधनादयो दोषा भवन्ति । एवं राजद्वारस्थितदण्डधरादिपुरुषकृता अवहेलनाशङ्कादयो दोषाश्च भवन्तीत्यतः कथमपि राजान्तःपुरेषु प्रवेश न कर्यात् , न वा अन्यान् श्रमणान् प्रवेशं कारयेत् , न वा अन्य प्रवेशं कुर्वन्तमनुमोदेत १० ३॥ सूत्रम्-जे भिक्खू रायंतेपुरियं वएज्जा “आउसो रायतेपुरिए णो खलु अम्हं कप्पइ रायंतेपुरे णिक्खमित्तए वा पविसित्तए वा इमं तुम पडिग्गहं गहाय रायंतेपुराओ असणं वा पाणं वा खाइमं वा साइमं वा अमिहडं आह१ दलयाहि" जो तं एवं वयइ वयंतं वा साइज्जइ ॥सू०४॥ छाया-यो भिक्षुः राजान्तःपुरिकां वदेत् 'आयुष्मति ! राजान्तःपुरिके ! नो खलु मम कल्पते राजान्तःपुरे निष्क्रमितुं वा प्रवेष्टुं वा इमं त्वं प्रतिग्रहं गृहीत्वा राजान्तःपुरात् अशनं वा पानं वा खाद्य वा स्वाद्य वा अभिहतमाहृत्य देहि' यः तामेव घदति वदन्तं पा स्वदते ॥सू० ४॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः 'रायंतेपुरियं वएज्जा' राजान्तःपुरिकां राजान्तःपुररक्षिकां प्रति एवं वक्ष्यमाणप्रकारेण वदेत्-कथयेत् । किं वदेत् ! For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy