SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ०८ ० ४-१० साधोः स्त्रीमध्ये कथाकथननिषेधः १९१ रिकायां वा प्राकारस्यावोऽष्टहस्तपरिमितो मार्ग : चरिका तस्यां वा 'पागारंसि वा' प्राकारे वा प्रकारोपरि विद्यमाने गृहे वा 'दारंसि वा' द्वारे वा नगरद्वारे 'गोपुरंसि वा' गोपुरे वा, गोपुरं नगरद्धारस्य अग्रद्वारम् तस्मिन् वा ॥ सू० ३ ॥ 9 'जे भिक्खू दगंसि वा' इत्यादि । 'दगंसि वा' उदके वा जलमध्ये 'दगमम्ांसि वा' उदकमार्गे वा येन पथा जलस्य प्रवाहो वहति तस्मिन् उदकमार्गे 'दगपहंसि वा' उदकपथे वा येन पथा जलमानेतुं गच्छत्यागच्छति च जनः स उदकपथः, तस्मिन् उदकपथे वा 'दगमलंसि वा ' उदकमले वा कर्दमसहितमार्गे 'दगतीरंसि वा' उदकतीरे वा उदकस्य समीपदेशे 'दगट्ठाणंसि वा' उदकस्थाने वा यत्र जलं तिष्ठति तत्र तडागादिषु ॥ सू० ४ ॥ 'जे भिक्खू सुण्णगिहंसि वा' इत्यादि । 'सुण्णगिर्हसि वा' शून्यगृहे वा मनुष्यादिवासरहिते गृहे 'सुण्णसालंसिवा' शून्यशालायां मनुष्यादिरहितायां शालायाम् 'भिन्नगिहंसि वा ' भिन्नगृहे वा त्रुटितस्फुटितगृहे 'भिन्नसालंसि वा' भिन्नशालायां वा त्रुटितस्फुटितशालायां वा 'कूडागारंसि बा' कूटागारे वा, तत्र कूटः पर्वतशिखरं तत्सदृशगृहे अधोविशालम् उपर्युपरि संकुचितं कूटागारं तस्मिन् 'कोठागारंसि वा' कोष्ठागारे शालिगोधूमयवाधन्नागारे || सू०५ ॥ 'जे भिक्खू तहिंसि वा' इत्यादि । 'तणगिहंसि वा' तृणगृहे वा दर्भादितृणसंपादितगृहे कुटीरे 'झोपडी' इति लोकप्रसिद्धे 'तणसालंसि वा' तृणशालायां वा दर्भादितृणसंपादितशालायाम् 'तुसगिहंसि वा' तुषगृहे वा शाल्यादि तुषस्थापनगृहे 'तुससालंसि वा' तुषशालायां वा तुषस्थापनाय निर्मितायां शालायाम् 'भुसगिहंसि वा' भुसगृहे वा गोधूमयवादीनां मर्दनेन जायमानो 'भूसा' इति लोकप्रसिद्धो वस्तुविशेषः, तादृशे भूसास्थापनाय निर्मिते गृहविशेषे 'भुसालसि वा' भुसशालायां वा तादृशशालायाम् || सू० ६ ॥ 'जे भिक्खू जाणसालंसि वा' इत्यादि । 'जाणसालंसि वा' यानशालायां वा यानमवादिकं तस्य शाला इति यानशाला विशालगृहं शालेत्युच्यते तस्यां यानशालायाम् ' जाणगिरंसि वा' यानगृहे वा अश्वादिगृहे वा 'जुग्गशालंसि वा' युग्यशालायां वा, तत्र युग्यं शकटरथादिकं यत्र स्थाप्यते तादृशशालायाम् 'जुग्गगिहंसि वा' युग्यगृहे वा ॥ सू० ७ ॥ 'जे भिक्खू पणियसालंसि वा' इत्यादि । 'पणियसालंसि वा' पण्यशालायां यत्र विक्रेय्यं भाण्डादिकं विक्रयार्थं स्थापितं भवेत् तादृशगृहं पण्यशालोध्यते तत्र 'पणियगिहंसि वा पण्यगृहे वा 'कुवियसालंसिवा' कुप्यशालायां वा यत्र लौहादिकं वस्तु स्थापितं भवेत् तादृशं गृहं कुप्यशाला, तत्र 'कुवियगिहंसि वा' कुप्यगृहे वा लौहादिस्थापनगृहे ॥ सू० ८ ॥ 'जे भिक्खू गोणसालंसि वा' इत्यादि । 'गोणसालंसि वा' गोवृषभशालायां वा 'गोणगिहंसि वा ' गवां गृहे वा 'महाकुलंसि वा' महाकुले वा तत्र महतां कुलम् महाकुलम् तस्मिन् For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy