________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिः उ०७ सू०९१-९३
मातृप्रामप्रकरणम् १८७ प्रतीच्छति स्त्रीभ्यः गृह्णीयात् 'पडिच्छंत वा साइज्जई' प्रतीच्छन्तं गृहन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ९१ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णयरेणं इंदिएणं आकारं करेइ करेंतं वा साइज्जइ ॥ सू० ९२॥ वा स्वदते ॥सू० ९२
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया अन्यतरेण इन्द्रियेणाकारं करोति कुर्वन्तं
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अण्णयरेणं इंदिएणं' अन्यतरेण केनापि इन्द्रियेण पुरुषस्य स्त्रियो वा इन्द्रियाकारेण स्तनमुखाद्यङ्गोपाङ्गरूपं किश्चिदपि इन्द्रियमाश्रित्येत्यर्थः, स्तनमुखादीनामिति भावः 'आकारं करेई' आकारं करोति, स्त्रियोऽग्रे हस्तादिना चित्रकर्मणा वा एता दृशमाकारं रचयति चित्रयति वा येन स्त्रियो मनसि रागः समुत्पद्येत, शरीरं रोमाञ्चितं कम्पायमानं च भवेत् , 'मुखाद्याकारावलोकनेन द्रवीभूता सती स्त्री माममिलषिष्यति' इति बुद्ध्या स्त्रियोडो आकारं कुर्यात् चित्रयेद्वा उपलक्षणात हस्तनेत्रभ्रप्रभृतिभिर्विकारजनका चेष्टां वा कुर्यात् 'करेंतं वा साइज्जई' कुर्वन्तमन्यं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥९२ ॥
सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्याइयं ॥ सू० ९३॥
॥ सत्तमो उसो समत्ते ॥ ७ ॥ - छाया-तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ॥१३॥
॥सामोरेशकः समाप्तः ॥७॥ चूर्णी-तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः तत् उद्देशकस्यादौ तृणमालिकादिकरणादारभ्य उद्देशकान्ते आकारपर्यन्तं यानि प्रायश्चित्तस्थानानि प्रोक्तानि तन्मध्यात् यत् किमप्येक प्रायश्चित्तस्थानं सेवमानः प्रतिसेवनं कुर्वाणः 'आवज्जई आपद्यते प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् ‘परिहारहाणं' परिहारस्थानं प्रायश्चित्तस्थानम् 'अणुग्धाइयं' अनुद्घातिकं गुरुकम् । अयंभावः-यः कोऽपि भिक्षुः एतेषु सप्तमो देशकोक्तप्रायश्चित्तस्थानेषु मध्यात् यत् किमपि एकम्-अनेक सर्व वा प्रायश्चित्तस्थानं प्रतिसेवते स गुरुचातुर्मासिकं प्रायश्चित्तं प्राप्नोतीति भावः ॥९३।। इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक- श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायां सप्तमोदेशकः समाप्तः ॥७॥
For Private and Personal Use Only