SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८० निशीथसूत्रे चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'माउरगास्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनवाञ्छया 'कोलावासंसि वा' कोलावासे वा, तत्र कोला:घुणाः काष्ठगताः काष्ठक्षतिकारका जीवविशेषाः 'घुण' इति लोकप्रसिद्धाः तेषां कोलानां य आवासः • स्थानं तत्र वा 'दारुए वा जीवपइट्ठिए' दारुके वा जीवप्रतिष्ठिते यस्मिन् काष्ठे जीवा विद्यमाना भवेयुः तादृशमत्कुणादि जीव विशिष्टपीठफलकादिके 'सअंडे' साण्डे पिपोलकाचण्डसहिते स्थाने काष्ठे वा 'सपाणे' सप्राणे क्षुद्रट्टीन्द्रियादिप्राणियुक्तस्थाने 'सबीए' सबीजे शाल्यादिसचित्तबीजयुक्तस्थाने 'सहरिए' सहरि हरितकायसहितस्थाने 'सओ से' सावश्याये. सूक्ष्महिमकणसहितस्थाने 'सउलिंग' सउत्तिङ्गे, उत्तिङ्गकाः - भूमौ वर्तुलविवरकारिणो गर्दभमुखाकृतयः कीटविशेषाः, यद्वा कीटिकानगरादयः, तैः सहिते स्थाने 'पणग' पनकः - अङ्करितो अनङ्कुरितो वा पञ्चवर्णानन्तकाय विशेषः 'फुलण' इति भाषाप्रसिद्धः 'दगमट्टिय' उदकमृत्तिका सजलपृथिवीकायः 'मक्कडासंताणगंसि' मर्कटसन्तानकः ऌताजालम्, तस्मिन्, एतेषु प्र्वोक्तघुणादियुक्तस्थानेषु यः श्रमणः स्त्रियं 'णिसीया वेज्ज वा' निषीदयेत् - उपवेशनं कारयेत्, 'तुयट्टा वेज्ज वा' त्वध्वर्तयेद्वा पार्श्वपरिवर्तनं कारयेसू तथा 'निसीयावेंतं वा' निषीदयन्तम् उपवेशयन्तं वा 'तुयट्टावेंतं वा' त्वग्वर्तयन्तं वा शाययन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते । यो भिक्षुमातृग्रामस्य मैथुनेच्छया सूत्रोक्तस्थानेषु स्त्रियमुपवेशयति शाययति 1 'वा, उपवेशयन्तं शाययन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ||सू०७५ || Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् — जे भिक्खू माउग्गामस्स मे हुणवडियाए आगंतागा रेसु वा आरामागारे वा गाहावइकुलेसु वा परियावसहेसु वा णिसीयावेज्ज वा तुयट्टा वेज्ज वा णिसीयावेतं वा तुयट्टावेंतं वा साइज्जइ ॥ सू० ७६॥ छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा परिवाजकावसथेषु वा निषीदयेद्वा स्वग्वर्तयेद्वा निषीदयन्तं वा स्वग्वर्तयन्तं वा स्वदते ॥ सू० ७६ ॥ I चूर्णी - 'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'आगंतागारेसु वा' आगन्त्रागारेषु वा आगन्तॄणाम् आगन्तुकानां गमनागमनसमये विश्रामार्थकारितेषु गृहेषु धर्मशालेतिप्रसिद्धेषु वा 'आरामागारे वा' आरामागारेषु वा क्रीडाकरणाय उपवनगृहेषु 'गाहावइकुलेसु वा' गाथापति कुलेषु वा - गृहस्थगृहेषु 'परियावसहेषु वा' परित्राजकावसथेषु वा तापसनिवासस्थानेषु 'णिसीयावेज्ज वा' निषीदयेत् वा उववेशयेत् 'तुयद्वावेज्ज वा' त्वग्वर्तयेद्वा शाययेत् 'पिसी यात्रेते वा निषीदयन्तं वा 'तुयट्टावेंतं वा' त्वग्वर्तयन्तं वा शयनं कारयन्तम् 'साइज्जइ' For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy