SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चूर्णि भाष्यावचूरिः उ० ७ सू० २-५ मातृग्राम प्रकरणम् १७३ मालिकां वा अस्थिमालिकां वा काष्ठमालिकों वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बीजमालिकां वा हरितमालिकां वा धरति धरन्तं वा स्वदते || २ || चूर्णी - 'जे भिक्खू' इत्यादि । पूर्वोक्ता माला ः 'धरेई' धरति - पार्श्वे स्थापयति, घरन्तं वा स्वदते इति । शेषं पूर्ववत् ॥ सू० २|| Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए तणमालियं वा मुंजमालियं वा वेत्तमालियं वा मयणमालियं वा पिछमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा पुष्पमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा पिणs पिणर्द्धतं वा साइज्जइ ॥ सू० ३ ॥ छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया तृणमालिकां वा मुञ्जमालिकां वा वेत्र मालिकां वा मदनमालिकों वा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिक वा शङ्खमालिकां वा अस्थिमालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बीजमालिकां वा हरितमालिकां वा पिनह्यति पिनान्तं वा स्वदते || ३ || चूर्णी - 'जे भिक्खू' इत्यादि । यो भिक्षुः तृणादीनां मालां पूर्वोक्तवस्तुजातनिर्मितां मालां 'पिणद्धेइ' पिनह्यति - कण्ठे धारयति पिनह्यन्तं वा स्वदते अनुमोदते । आभिर्मालाभिर्मदीयं शरीरमलंकृतं सुन्दरं भवतु, अलंकृतेन सुन्दरेण शरीरेणाहं कामिनीनां प्रियो भविष्यामि तेन सा मम मैथुनेच्छां पूरयिष्यतीति बुद्धया तृणादिमालाः यः कश्चिद्विक्षुः स्वयं कण्ठे घारयति धारयन्तं चान्यमनुमोदते स प्रायश्चित्तभागी भवति, आज्ञाभङ्गादिदोषांश्च प्राप्नोतीति ॥ सू० ३ ॥ भाष्यम् —-तणमाइमालियाणं करणं धरणं च मे हुणिच्छाए । कुज्जा अप्पपरट्ठा, आणाभंगाइ पावे || छाया -तृणादिमालिकानां करणं धरणं च मैथुनेच्छया । कुर्यात् आत्मपरार्थ, आशाभङ्गादि प्राप्नोति ॥ अवचूरिः – 'तणमाइ ' इत्यादि । यो भिक्षुः 'मेहुणवडियाए' 'मैथुनप्रतिज्ञया मैथुनेच्छया तृणादिमालिकानां करणं संपादनं धरणं स्वशरीरे धारणं च कुर्यात् स आज्ञा भङ्गादिदोषान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादिदोषान् प्राप्नोति । अयं भावः1 :- तृणादिमालाकरणे धारणे माझ्या शरीरविभूषा करणे च स्वस्य परस्य मोहोदयो जायते, तथा तृणादिमालाकरणे तद्धारणकरणे च सूत्रार्थपठनपाठनसमयस्य व्यर्थनिर्गमनेन सूत्रार्थयोर्हानिर्भवति, तीर्थकरैर नाज्ञप्तं For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy