SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५३ निशीयसूत्रे चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'संवाहुडिय सेज्जं सप्राभृतिकां शय्याम्, प्राभृतम् - उपहारः यत्र कर्म प्राभृतं भवति कर्मण आगमनं भवति तेन सहिता या सा प्राकृतिका, यस्यां वसतौ छादनलेपनभूमिकर्मादिकं क्रियते तादृशीं शय्यां वसतिम् Acharya Shri Kailassagarsuri Gyanmandir प्राचूर्णकानां निवासाय कियत्कालार्थ दत्ता साऽपि वसतिरुपचारात् सप्राभृतिका प्रोच्यते, तादृशीं शय्यां वसतिं स्थानकमित्यर्थः 'अणुष्पविसइ' अनुप्रविशति एतादृशोपाश्रये निवासार्थमागच्छति 'अणुपवितं वा साइज्जइ' अनुप्रविशन्तं वा स्वदते । यो हि भिक्षुः सप्राभृतकं स्थानकं निवासार्थमागच्छति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । यस्मात् कारणात् सम्राभृतिकावसतौ निवासकरणे एते पूर्वोक्ता दोषा भवन्ति तस्मात् कारणात् श्रमणः सप्राभृतकस्थानके निवासं न कुर्यात्, न वा सप्राभृतकस्थानके निवसन्तं श्रमणमनुमोदयेदिति ॥ सू० ६३ ॥ सूत्रम् - जे भिक्खू सपरिकम्मं सेज्जं अणुष्पविसइ अणुष्पविसंत वा साइज्जइ ॥ सू० ६४ ॥ छाया -- यो भिक्षुः सपरिकर्मा सय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥सू०६४॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सपरिकम्मं सेज्जं 'अणुष्पविसइ' सपरिकर्मा शय्याम् अनुप्रविशति, तत्र सपरिकर्मा - परिकर्मसहिता लिप्सा घृष्टा मृष्टा धवलिता भवेत्, यत्र निवासकरणेन मूलगुणोत्तरगुणानां विघातों जायते, अथवा यस्यां वसतौ साधुमुद्दिश्यानुद्दिश्य वा कश्चित् घावनघर्षणलेपनादिकं चित्रकर्मादिकं वा संपादितं भवेत् तादृशी वसंतिः सपरिकर्मा शय्या कथ्यते । तामनुप्रविशति तत्र निवासं करोति, तथा 'अणुष्पविसंत वा साइज्जइ' अनुप्रविशन्तं वा स्वदते । यो हि भिक्षुः सपरिकर्मवसतौ निवासं करोति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ।। सू० ६४ ॥ सूत्रम् — जे भिक्खू 'णत्थि संभोगवत्तिया किरिय' -त्ति वयइ वयंतं वा सॉइज्जइ ॥ सू० ६५ ॥ छाया - यो भिक्षुः 'नास्ति संभोगप्रत्यया क्रिया' इति वदति वदन्तं वा स्वदते ॥६५॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः णत्थि संभोगवत्तिया किरिय'- त्ति वयइ' नास्ति संभोगप्रत्यया क्रियेति वदति । तत्र मास्यर्य प्रतिषेधः, 'समोग' इत्यत्र संशब्दः एकीभावे भुजधातुः पालनाभ्यवहरणार्थकः, ततश्च एकत्र भोजनमित्यर्थः, एकमण्डल्या For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy