SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विभाध्यायचूरिः उ०५ सू०३६-६० नवलोहादिखन्यामिक्षायाः मुखवीणिकादेश्च निषेधः १४९ अमङ्गलमिति कृत्वा न वासं करोति ततो निवर्तते । अस्थिरे च ग्रामे जाते लोका वदन्ति-कुतोस्माकं सुखम् यस्मात् प्रथममेव तु मुण्डशिरसो दृष्टाः भिक्षया लम्भिताश्च, इति तस्यान्येषां च श्रमणानां भक्कादीन् निवारयिष्यन्ति, एवं चान्तरायदोषो भवति । एवं च नवनिर्मितग्रामादौ प्रवेशे दोषा भवन्ति । एवं नवनिर्मितग्रामादौ प्रवेशे कृते सचित्तपृथिव्यादिसंघटनादोषः, अप्कायहरितकायादिसंघट्टनदोषोपि भवेत् तस्मात् कारणात् नवनिर्मितग्रामादौ प्रवेशो न कर्तव्यो न वा प्रविशन्तमनुमोदयेदिति ॥सू० ३५॥ सूत्रम्-जे भिक्खू नवणिवेसंसि अयागरंसि वा तंबागरंसि वा तउ. आगरंसि वा सीसागरंसि वा हिरण्णागरंसि वा सुवण्णागरंसि वा रयणा. गरंसि वा वइरागरंसि वा अणुप्पविसित्ता असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू० ३६॥ छाया-यो भिक्षुर्नवनिवेशे वा अय आकरे वा ताम्राकरे वा अप्वाकरे वा सीसा. करे वा हिरण्याकरे वा सुवर्णाकरे वा रत्नाकरे वा वज्राकरे वा अनुप्रविश्याशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥ सू० ३६ ॥ __चूर्णी-जे भिक्खू' इत्यादि । यो भिक्षुः श्रमणः श्रमणी वा इत्यदिना यथा नवनिवेशिते ग्रामादौ प्रविश्य भिक्षाग्रहणनिषेधः कृतस्तथैव नवनिवेशिते लोहखन्यादावपि भिक्षाग्रहणनिषेधो ज्ञातव्यः। तथाहि-नवनिवेशिते अयआकरे-लोहखन्यां, एवं ताम्राकरे-ताम्रखन्यां, त्रप्वाकरे त्रपुः-जसदा' इति प्रसिद्धो धातुविशेषः, तस्य खन्यां, सीसाकरे-सीसकनामधातुविशेषखन्यां, हिरण्याकरे-रजतखन्यां; सुवर्णाकरे, रत्नाकरे-रत्नखन्यां, वज्राकरे-वजरत्नखन्यां वाऽनुप्रविश्य श्रमणः श्रमणी वाऽशनादिकं गृह्णाति ग्रहन्तं वा स्वदते स दोषभागू भवति । तत्र गमने संयमात्मविराधनाऽवश्यम्भाविनी, एषां सचित्तत्वासंयमविराधना । पतनादिसंभवेनाऽऽत्मविराधना च भवति । तथा तत्र स्थितानां चौरादिशङ्कासंभवोऽपि स्यात् ।।सू० ३६॥ सूत्रम्-जे भिक्खू मुहवीणियं करेइ करेंतं वा साइज्जइ ॥सू०३७ छाया-यो भिक्षुर्मुखीणिकां करोति कुर्वन्तं वा स्वदते ॥सू० ३७। चूर्णी—'जे भिक्खू मुहवीणिय' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'मुहबोणियं करेइ' मुखवीणिकां करोति, तत्र वीणा वाद्यविशेषलक्षणा, तथा च वीणावत् मुखं करोति, वीणया हि मधुरशब्दोऽभिव्यज्यते ततो मुखस्य तथा चेष्ट्रां करोति यथा मुखं वीणा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy