SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० ४ सू० १३६ -१३९ उच्चारप्रसवणपरिष्ठापनाधिकारः १३१ दंशने चात्मविराधनं च । यस्मादेते दोषास्तस्मात् कारणात् दिवसस्य चरमपौरुष्यामेव भूमित्रयस्यावश्यमेव प्रतिलेखनं कर्तव्यम् । तिम्रो भूमय आसन्न--मध्य--दूररूपाः, तत्र-आसन्नभूमिसतिसमीपस्था, मध्यभूमिर्लोकानां गमनागमनमार्गरूपा, दूरभूमिः-सा द्विशतहस्तप्रमाणात्परं या भूमिः सा इति ॥ सू० १३५ ॥ सूत्रम्-जे भिक्खू खुड्डागंसि थंडिलंसि उच्चारपासवणं परिठवेइ, परिट्ठवेतं वा साइज्जइ १३६॥ छाया-यो भिक्षुः क्षुल्लके स्थण्डिले उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥सू० १३६॥ . चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् मिक्षुः 'खुड्डागंसि थंडिलंसि' क्षुल्लकेऽतिसंकुचिते स्थण्डिले स्थाने, तत्र हस्तप्रमाणतो यत् न्यूनं स्थानं तत् क्षुल्लकं स्थानं, तस्मिन् क्षुल्लकस्थाने 'उच्चारपासवणं परिहवेइ' उच्चारप्रस्रवणं परिष्ठापयति । 'परिहवेतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते स प्रायश्चित्तभाग् भवति ॥१३६॥ क्षुल्लकस्य किं प्रमाणम् ! अत्राह भाष्यकारःभाष्यम्-विक्खंभायामेहि, रयणीमेत्तं हवेज्ज थंडिल्लं । चउरंगुलमोगाढं, जहण्णवित्थिण्णमच्चित्तं ॥ एत्तो हीणतरं जं, खुड्डागं थंडिलं मुणेयव्वं । एत्थ य परिहवेंतो, आणाभंगाइ पावे ॥ छाया-विष्कम्भायामाभ्यां रत्निमात्रं भवेत् स्थण्डिलम् । चतुरङ्गुलावगाद, जघन्यविस्तीर्णमचित्तम् ॥ अस्मात् हीनतरं यत् क्षुल्लकं स्थण्डिलं ज्ञातव्यम् । अत्र च परिष्ठापयन् , आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः-'विक्खंभायामेहिं' इत्यादि । विष्कम्भायामाभ्यां रनिमात्रं बद्धमुष्टिकहस्तप्रमाणं यद् भवेत् , तथा यच्च चतुरङ्गुलावगाई भूमेरधश्चतुरङ्गुलं यावद् अचित्तं भवेत् तत् स्थण्डिलं जघन्यविस्तीर्ण जघन्यतो विस्तीर्ण कथ्यते । 'एत्तो' इत्यादि, अस्मात् जघन्यविस्तीर्णात् यत् हीनतरं भवेत् तत् क्षुल्लक स्थण्डिलं ज्ञातव्यम् , अत्र-अस्मिन् एतत्परिमिते स्थण्डिले उच्चारप्रस्रवणं परिष्ठापयन् साधुः आज्ञाभङ्गादि प्राप्नोति ।। सू० १३६ ॥ सूत्रम्-जे भिक्खू उच्चारपासवणं अविहीए परिट्ठवेइ, परिठवैतं वा साइज्जइ ॥ सू० १३७॥ . छाया-यो भिक्षुरुच्चारप्रस्रवणम् अविधिना परिष्ठापयति परिष्ठापयन्तं वा स्वंदतें।सू०१३७॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy