SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथस्ने "माचार्यों दुग्धमेव मह्यं दास्यति, न दुग्धविकृतिम्" इति हेतोस्तावुभावपि पदार्थी सम्मेलयतीत्यादि । उपाधी--अकारणेऽविधिना वस्त्रादिकं सीव्यते १, अकारणे विधिना सौम्यते २, कारणेऽविधिना सीव्यते ३, एते त्रयोऽपि भङ्गा अधिकरणम् । 'कारणे विधिना सीव्यते' इति चतुर्थी भङ्गस्तु शुद्धः, अनधिकरणत्वात् । तदेतत्संयोजनाधिकरणम् ।। . अथ निसर्जनाधिकरणं प्रदर्श्यते--तद्-द्विविधम्-लौकिकं लोकोत्तरिकं च २, तत्र-लौकिक यथाकृतं निसृजति, यथा कस्मैचिद्वस्त्रभूषणादीनां क्रोधादिवशात्प्रदानम् , इत्यादिकम् । लोकोत्तरिकं निसर्जनं.त्रिविधम्-सहसा १, प्रमादेन २, अनाभोगेन च ३ । तत्र-पूर्वादिष्टेन योगेन किञ्चित्सहसा निसृजेत् । पञ्चविधप्रमादाऽन्यतरेण प्रमत्तो निसृजेत् । एकतो विस्मृत्याऽनाभोगेन निसृजेत् , तदेतन्निसर्जनाऽधिकरणम् । इति द्रव्याधिकरणम् । इदानीं-भावाधिकरणं प्रदर्शयामि-तद्यथा-संरम्भे १, समारम्भे २, आरम्भ च ३ । उक्तञ्च - संकप्पो संरंभो, परितावकरो भवे समारंभो । आरंभो उद्दवओ, सव्वनयाणं विसुद्धाणं ॥ प्राणातिपातादेः सङ्कल्पः-संरम्भः१, परितापकरणं-समारम्भः २, उपद्रवणं-हननम्-आरम्भः ३ विशुद्धानां सर्वनयानां मतमेतत् । एतेषामधो मनोवचनदेहाः स्थापनीयाः, तदधः करण-कारणाऽनु. मोदनानि, एतानि त्रीणि स्थापयितव्यानि । एतेषामप्यधः क्रोधमानमायालोभाः, एते चत्वारः स्थापयितव्याः । तत्राऽऽलापप्रकार इत्थम्-क्रोधसम्प्रयुक्तो मनसा संरंभं करोति १, मानसम्प्रयुक्तो मनसा संरम्भं करोति २, मायासम्प्रयुक्तो मनसा संरम्भं करोति ३, लोभसम्प्रयुक्तो मनसा संरम्भं करोति ४, एते चत्वार आलापकाः करणे । एवमन्यद्वारा कार्यमाणेऽपि चत्वार आलापकाः । तथा-क्रोधसम्प्रयुक्तो मनसा संरंभ कारयति १, मानसम्प्रयुक्तो मनसा संरम्भं कारयति २, मायासम्प्रयुक्तो मनमा संरम्भ कारयति ३, लोमसंप्रयुक्तो मनसा संरम्भं कारयति ४ । एवं क्रोवसम्प्रयुक्तो मनसा संरम्भमनुमोदते १, मानसंप्रयुक्तो मनसा संरम्भमनुमोदते २, मायासम्प्रयुक्तो मनसा संरम्भमनुभोदते ३, लोभसम्प्रयुक्तो मनसा संरम्भमनुमोदते ४, ___ एवं द्वादश वियरुपा मनसा लब्धाः । एवमेव-द्वादश वचनेन । तथैव द्वादश कायेन । तदेवं संरम्भस्य षट्त्रिंशद्भङ्गाः । एवं-समारम्भस्याऽपि षट्त्रिंशद्भङ्गाः । एवमारम्भस्याऽपि षट्त्रिंशद्भङ्गाः । सर्वसङ्कलनयाऽष्टोत्तरशतं भङ्गानां भवति । एतेषां द्रव्य--भावाधिकरणानामन्यतरेणाऽपि--अधिकरणं यो भिक्षुरुत्पादयति स प्रायश्चित्तभागी भवति, तथा तस्याऽऽज्ञाभङ्गादिका दोषा भवन्ति । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy