SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिभाष्यावचूरिः उ० ३ सू० ५०-५८ दन्तघर्षणाद्यौष्ठाऽऽमर्जनादिनिषेधः १०१ ' छाया - पवम्-दीर्घाणि बस्तिरोमाणि० ॥४२॥ दीर्घाणि चक्षुरोमाणि० ॥४३॥ दीर्घाणि जङ्घारोमाणि० ॥४४॥ दीर्घाणि कक्षारोमाणि० ॥४५॥ दीर्घाणि श्मश्रुरोमाणि ॥४६॥ दीर्घान् केशान्० ॥४७॥ दोर्घाणि कर्णरोमाणि ॥४८॥ एवं नासारोमाणि ॥४९॥ चूर्णी-एतानि द्विचत्वारिशत्सूत्रादारभ्य एकोनपञ्चाशत्सूत्रपर्यन्तानि सूत्राणि पूर्ववद् व्याख्येयानि ॥ सू० ४२-४९॥ सुन्नम्-जे भिक्खु अप्पणो दंते आघंसेज्ज वा पधंसेज्ज वा आघंसंतं वा पघंसतं वा साइज्जइ ॥ सू० ५०॥ छाया-यो भिक्षुः आत्मनो दन्तान् आघर्षद्वा प्रघर्षद्वा आघर्षन्तं वा प्रघर्षन्तं वा स्वदते ॥ सू० ५० ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो दंते' आत्मनः स्वस्य दन्तान् 'आघंसेज्ज वा' आघर्षत् मृत्तिकया क्षारपुटादिना वा सकृत् घर्षेत्, 'पघंसेज्ज वा' प्रघत्-अनेकवारं वा घर्षेत् । तथा-'आघंसं वा पघंसंतं वा साइज्जई' माघर्षन्तं वा प्रघषन्तं वा स्वदते । यो भिक्षुः स्वकीयदन्तान् मृत्तिकादिनैकवारमनेकवारं वा घर्षति घर्षन्तं वाऽनुमोदते स प्रायश्चित्तभागी भवति । तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादयो दोषा भवन्ति ॥ सू० ५०॥ सूत्रम्-जेभिक्खू अप्पणो दंते सीओदगवियडेण उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा, उच्छोलेंतं वा पधोतं वा साइज्जइ ॥ सू० ५१॥ छाया-यो भिक्षुः आत्मनो दन्तान् शीतोदकविकटेन वा उष्णोदकविकटेन वा. उच्छोलेडा प्रधावेद्वा उच्छोलन्तं वा प्रधावन्तं वा स्वदते । सू० ५१॥ चूर्णीः-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो दंते' आत्मनः स्वस्य दन्तान् 'सीओदगवियडेण वा उसिणोदगवियडेण वा' शीतोदकविकटेन-तण्डुलधावनादि. जलेन अचित्तेन, उष्णोदकविकटेन-अचित्तोष्णोदकेन 'उच्छोलेज्ज वा' उच्छोलेत् एकवारं वा 'पधोवेज्ज वा' प्रघावेद् वारं वारम् । तथा-'उच्छोलेंतं वा पधोतं वा साइज्जइ' उच्छोलन्तं वाप्रधावन्तं वा स्वदते । यो भिक्षुः स्वकीयदन्तानेकवारमनेकवारं वा प्रक्षालयेत् अथवा-प्रक्षालयन्तमनुमोदते स प्रायश्चित्ताभाग् भवति । तस्याज्ञाभङ्गादयो दोषा भवन्ति । यस्माददन्तधावनेएते दोषा मतो भिक्षुभिर्दन्ता न प्रक्षालयितव्याः ॥ सू० ५१॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy