SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चूर्णिमा व्यावचूरिः उ० ३ सू० ३४-३५ कायगतगण्डादीनां छेदनपूयादिनिस्सारणनि० ९५ रूपाम्, यस्याः स्वर्जने तत्समये सुखमिव जायते पश्चात् दुःखाधिक्यम् 'फुनसी' - तिं लोकप्रसिद्धम्, 'असियं वा' अर्शो वा गुदागतो रोगः 'बवासीर ' इति लोकप्रसिद्धस्तम्, 'भगंदलं वा' भगन्दरं वा भगन्दरो गुह्यस्थानगतरोग विशेषो लोकप्रसिद्धस्तम् । एतान् व्रणविशेषान् 'अन्नवरेण तिक्खेण सत्थजाएण' अन्यतरेण येन केनाऽपि तीक्ष्णेन निशितेन - शत्रजातेन क्षुरादिना 'आच्छिदेज्ज वा' आच्छिन्द्यात् न्यूनमेकवारं वा छेदनं कुर्यात् 'विच्छिदेज्ज बा' विच्छि न्यात् अधिकमनेकवारं वा छेदनं कुर्यात् । तथा - 'आच्छिदंत वा विच्छिदतं वा साइज्जर' मच्छिन्दन्तं वा विच्छिन्दन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । तस्याज्ञाभङ्गादिदीवा भवन्ति ॥ सू० ३४ ॥ अत्राह भाष्यकारः -- भाष्यम् - सरीरत्थं च गंडाइ, छिंदतो पावर जई । आणाभंगाइए दोसे, दुविहं च विराहणं ॥ छाया - शरीरस्थं च गण्डादि छिन्दन् प्राप्नोति यतिः । आशाभङ्गादिकान् दोषान् द्विविधं च विराधनम् ॥ Acharya Shri Kailassagarsuri Gyanmandir अवचूरि : - 'सरीरत्थं' इत्यादि । यः खलु यतिः सम्वग् यतनावान् श्रमणः - श्रमणी वा शरीरस्थं - स्वकीयशरीरे वर्त्तमानं गण्डादिवणं तीक्ष्णेन क्षुरकादिशत्रेण स्वयमेव छिन्दन् छेदयन् वा परेण आज्ञाभङ्गानवस्थामिध्यात्वलक्षणान् दोषान् प्राप्नोति । तथा द्विविधं द्विप्र कारकं विराधनम् संयम विराधनमात्मविराधनं च प्राप्नोति । त्रणच्छेदनकरणे सूक्ष्मबादरायनेकप्रकारकजीवानां विराधनं सम्भवति । तथा-8 - क्षुरकादिशस्त्रेण वणादिच्छेदने आत्मवधस्याऽपि संभ वेनात्मविराधना चेति ॥ सू० ३४ ॥ सूत्रम् — जे भिक्खु अप्पणो कार्यसि गंड वा पिलगं वा अरइयं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता - विच्छिदित्ता, पूयं वा सोणियं वा, णीहरेज्ज वा विसोहेज्ज वा, पीहेरेंतं वा विसोहतं वा साइज्जइ || सू० ३५॥ छाया --- यो भिक्षुः आत्मनः काये गण्ड वा पिलकं वा अरतिकां वा भगन्दरं बा अन्यतरेण तीक्ष्णेन शस्त्रजातेन आच्छिद्य विच्छिद्य पूयं वा शोणिते वा निईरेद्वा विशोधयेद्वा, निरन्तं वा विशोधयन्तं वा स्वदते ॥ सू० ३५ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कार्यसि' आत्मनः काये स्थितम् 'गंडं वा' गण्डामिघत्रणम्, 'पिगं वा' पिलकं वा 'अरइयं वा' भरतिकां 'भमंदलं ना' For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy