SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा हि-कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्ण भवति एवं. स. भमवान् धर्मध्यानकोष्ठमनुप्रविश्य, इन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः । संवरेण.तपसा ध्यानेन आत्मानं भावयन्-वासयन् विहरति-तिष्ठति । 'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्माद् ध्यानादनन्तरं, णं इति वाक्यालकारे, स आर्यजम्बुनामा उत्तिष्ठतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसड्ढे' इत्यादि जाता-प्रवृत्ता श्रद्धा-इच्छा यस्य प्रष्टुः स जातश्रद्धः, यद्वा जाता श्रद्धा-इच्छा वक्ष्यः माणवस्तुतत्त्वपरिज्ञानं प्रति यस्य स जातश्रद्धः, तथा जातः संशयोऽस्येति जातसंशयः, तथा जातकुतूहलः-जातौत्सुक्य इत्यर्थः विश्वस्यापि वस्तुव्यतिकरस्याङ्गेषु कोऽन्योऽर्थो भगवताऽभिहितो भविष्यति कथं च तमहमवभोत्स्ये? इति.. ' उट्टाए उट्टेइ ' उत्थानमुत्था-ऊध्र्व वर्तनं तया उत्तिष्ठति, उत्थाय च ' अज्जसुहम्मं थेरं तिक्खुत्तो आयाहिणपयाहिणं करेइ' त्ति विकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणादक्षिणपार्वादारभ्य परिभ्रमणतः ( पुनः ) दक्षिणपार्श्वप्राप्तिः आदक्षिणप्रदक्षिणा तां करोति-विदधाति, कृत्वा च वन्दतेवाचा स्तौति, नमस्यति-कायेन प्रणमति, 'नच्चासन्ने नाइदूरे' उचिते देशे इत्यर्थः । ' सुस्लूसमाणे ' श्रोतुमिच्छन् । 'नमंसमाणे ' नमस्यन्-प्रणमन् । अभिभुखं 'पंजलिउडे' कृतप्राञ्जलिः । विनयेन उक्तलक्षणेन ‘पज्जुवासमाणे ' पर्युपासनां विदधान एवं इति वक्ष्यमाणप्रकारं ' वदासि 'ति अवादीत् ॥ [ पृ. ४ ] भगवता उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः, वो ऽध्ययनसमुदायः, तद्यथेत्यादिना पञ्च वर्गान् दर्शयति "निरयावलियाओ कप्पडिसयाओ पुष्फियाओ पुष्कचूलियाओ वण्हिदसाओ" त्ति प्रथमवो दशाध्ययनात्मकः प्रज्ञप्तः, अध्य For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy