SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra < www.kobatirth.org ॐ नमः श्रीशान्तिनाथदेवाय । पार्श्वनाथं नमस्कृत्य प्रायोऽन्यग्रन्थवीक्षिता । निरयावलिश्रुतस्कंधे व्याख्या काचित्प्रकाश्यते ॥ णं ' , [ पृ० ३ ] तत्र निरयावलिकाख्योपाङ्गग्रन्थस्यार्थतो महावीरनिर्गतवचनमभिधित्सुराचार्यः सुधर्मस्वामी सूत्रकारः ते णं काले णं' इत्यादिग्रन्थं तावदाह - अत्र वाक्यालङ्करार्थः । तस्मिन् कालेऽवसर्पिण्याश्चतुर्थभागलक्षणे तस्मिन् समये - तद्विशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्य: सुधर्म ( श्रीवर्धमान )स्वामी च होत्थ' त्ति अभवत् - आसीदित्यर्थः । अवसर्पिणीत्वात्कालस्य वर्णक ग्रन्थवर्णित विभूतियुक्तमिदानीं नास्ति। ' रिद्धत्थिमियसमिद्धं भवनादिभिर्वृद्धिमुपगतं भयवर्जितत्वेन स्थिरं, समृद्धं - धनधान्यादियुक्तं, ततः पदत्रयस्य कर्मधारयः । “पमुइयजणजोणवयं " प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावात् जना नगरवास्तव्यलोकाः जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो यस्मिन् तत्तु प्रमुदितजनजानपदम् । उत्ताणनयणपेच्छणिज्जं सौभाग्यातिशयात् उत्तानैः अनिमिषैः नयनैः लोचनैः प्रेक्षणीयं यत्तत्तथा । " पासाइयं” चित्तप्रसत्तिकारि । " दरिसणिज्जं " यत् पश्यच्चक्षुः श्रमं अभिरूपं न गच्छति । मनोज्ञरूपम् पडिरूवं द्रष्टारं द्रष्टारं प्रतिरूपं यस्य तत्तथेति । तस्मिन् " उत्तरपुरिच्छिमे दिसीभाए गुणसिलए नामं चेइए होत्था” चैत्यं व्यन्तरायतनम् | 'वण्णओ' त्ति चैत्यवर्णको वाच्यः- “ चिराईए पुव्वपुरिसपन्नत्ते " चिरः- चिरकालः आदिः - निवेशो यस्य तत् चिरादिकम् अत एव पूर्वपुरुषैः अतीतूनरैः प्रज्ञप्तम् - उपादेयतया प्रकाशितं पूर्वपुरुषप्तम् । सछत्ते सज्झर सघंटे सपडागे कयवेयद्दीप कृतवितदिकं - रचि " C > << " "" CL Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy