SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुबतखामि चरितम् ॥३०॥ पञ्चमो मवः अन्येधुश्च यशःसूरि-रागादुद्यानमुत्तमम् । इयाय वन्दितुममुं वज्रनाभोऽपि चक्रभृत् ॥२८९।। साद्धं तेनागमच्चञ्चन्माणिक्यमणिकुण्डलः । धर्मसत्रैर्वृतो मित्रः, कुमारो वज्रकुण्डलः ॥ २९० ।। त्रिश्च प्रदक्षिणीकृत्य, राजाज्वन्दत सद्गुरुम् । कुमारोऽपि स्फुरद्भावः, सुताहि पितृमार्गगाः ॥२९१॥ ऊचे सरिरिति प्राप्य, मानुष्यं हन्त दुर्लभम् । न प्रमादः शुभैः कार्यः प्रमादः प्रथमो रिपुः ॥२९२॥ सत्वरं गत्वरं हन्त, यौवनं स्मृतिभूवनम् । शरीरिणां जीवितव्यं, विधुदाटोपपेटकम् ॥ २९३ ॥ धनं विघटते वेगात, सोदरोपि सुतोऽपि च । न पुनस्तीर्थकृद्धर्मः कृतः खल्पोऽपि जातुचित् ॥२९४॥ इति श्रुत्वा वज्रनाभो, व्रतेच्छुश्चक्रवत्यंभूत् । वैराग्यं परमं स्तोककर्मणां श्रुतिसङ्गमात् ॥ २९५ ॥ राज्ये चक्रधरोज्यस्त, कुमारं मणिकुण्डलम् । प्रवव्राज स्वयं सूरेः, सन्निधौ शुभवासनः ॥२९६॥ प्रावाजीभुजा साकम्, सती देवी शुभावती । बहीभिर्नुपपत्नीभि-महतां स्वपरिच्छदः॥ २९७॥ अन्यत्र विहृतः सूरिः नवीनैः साधुभिः समम् । क्रमाच निर्वृति प्राप, वज्रनाभः प्रियान्वितः ।।२९८॥ वज्रकुण्डलभूपालः, पालयन्निखिलामिलाम् । दुःसाध्यान्साधयामास, द्वितीय इव चक्रभृत् ॥२९९॥ बहूनि पूर्वलक्षाणि, गन्धमादनपूःपतिः । सुखेन गमयामास, जिनधर्मपरायणः॥ ३०॥ कलाकलापपारीणः, सकलैः कलितो गुणैः। कामदेवाभिधो मुख्य-बान्धवो रतिवल्लभः ॥ ३०१॥ अन्येारश्ववारीधैः, कामायैः पर्यलतः । निर्गतो ह्यवाह्याल्यां, कौतुकी मणिकुण्डलः ॥ ३०२ ॥ पपातासनशैथिल्यात् , कामदेवः प्रमादतः । न केनापि हि विज्ञातो, यद्भाव्यं भवतीति तत् ॥३०॥ अगदत्तकथा ॥३०॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy