________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अरे ! किं भाषसे मद्यमत्तवाक्योपमं वचः । नानुमन्यावहे, जैन दर्शनं तत्त्वदर्शिनौ ॥ २१६ ॥ शिवकेतुरथ साह, जिनधर्मोऽस्ति निश्चितम् । यस्मिन् जीवदयातत्त्वं, कथ्यते क्रियतेऽन्वहम् ॥२१७॥
आत्मनो दर्शने जीव-रक्षैव हि निगद्यते । परं न क्रियते जीव-हननाद्यज्ञकर्मणि ।। २१८॥ विश्वभूतिरथोवाच, जिनधर्मोऽस्ति चेद्वरः। तथापि त्वां न मोक्ष्यामि, तद्वते तव सम्मते ॥ २१९ ॥ शिवकेतुरथ स्माह, भोक्तव्यं मे तदा खलु । यदा गृहीतचारित्रो, भविष्यामि द्विजाग्रणीः ॥ २२० ॥ ततो दिनद्वयं याव - दुपवासपरोजनि । मुखवन्धे हि कार्याणि, प्रायः सिद्धयन्ति नान्यथा ॥२२१॥ ततस्तृतीयदिवसे, मेघर्षों विहृतेऽन्यतः। आगतौ भुवनतुङ्ग-सूरेस्तौ चरणान्तिके ॥ २२२ ।। ऊचे सरिर्दयाधर्म-स्तं विना विफलं परम् । विहाय लोचने सर्व-मङ्गोपाङ्गं हि पङ्गुवत् ॥ २२३ ॥ जटी मुण्डी तपस्वी च, वल्कली सुतपा अपि । शोभते न दयां मुक्त्वा, जलहीनं यथा सरः ।। २२४ ॥ श्रुत्वेति विश्वभूतिश्चामस्तामुष्य गुरोर्वचः । इतः शिवोऽपि तत्राऽऽगात्, गुरूपादनमस्यया ॥ २२५॥ विश्वभृतिरुवाचेदं ममायं नन्दनो गुरो! । भवद्वतं विधाय्य स्ति, मेघवाहनबोधितः ॥ २२६ ॥ परतत्रः परं देव! राज्ञोऽहं मणिमालिनः। तमापृच्छय सुतं सम्यक्, कारयिष्यामि सद्वतम् ।।२२७॥ अथोवाच गुरुर्भद्र ! प्रमादी भव मा क्वचित् । द्वाविंशतिर्दिनान्यस्य, स्थितिरस्तीति चिन्तय ।। २२८ ॥ अथोवाच द्विजो हृष्टः, प्रत्ययः कोऽत्र सद्गुरो!। अथो सूरिस्वाचेदमुपराज गतस्य ते ॥ २२९ ।। लेखः सेनापतेरस्य, आगन्ता विजयाङ्कितः । तत्तुष्टिदाने राडस्मै, लक्षमेकं प्रदास्यति ॥ २३० ॥
प्रथमः भवः मेषवाहन
For Private and Personal Use Only