SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः । सुव्रतस्य जगद्भर्तु-स्तत्राऽवस्थितिशालिनः । अभवन्मेदिनीकम्पो, वाताऽऽन्दोलितकेतुवत् ॥ १ ॥ गिरयः कन्दुकायन्ते, आमूलश्लथबन्धनाः । मृत्स्ना पिण्डायते पृथ्वी, कम्पमानकुलाचला ॥ २ ॥ भीतभीता जनाः पौरा, अस्मरदेवतागुरून् । भीरवो भीरवो भर्तृ- कण्ठं स्वभुजयाऽरुधन् ॥ ३ ॥ जितशत्रुर्महीपाल - चकितोऽजनि मानसे । किमयं कल्पकालोऽभूदकाण्डेऽपि महीतटे ॥ ४ ॥ अथवा यत्र तीर्थेशः, साक्षाद्विहरति क्षितौ । तत्राऽशिवानि भूयांसि, प्रशाम्यन्ति विनिश्चितम् ॥ ५ ॥ अथवा कुपितः कोऽपि, महर्षिर्विदधेतराम् । अथवा जगतां नाथे, कः सन्देहोऽत्र तिष्ठति ? ॥ ६ ॥ ध्यात्वेति भूपतिः पौरैरन्वितो जगताम्पतिम् । आगात्समवसरणे, द्वितीये दिवसे सुधीः ॥ ७ ॥ प्रभुं प्रणम्य न्यगद - न्महीकम्पोऽद्य तीर्थप ! । कथङ्कारमभूद्भूया - द्विहृतेऽत्र जिनेश्वरे ॥ ८ ॥ अथ प्रोवाच भगवान्, सनीरजलदध्वनिः । शृणु क्षोणितटीकम्प कारणं काश्यपीपते । ।। ९ ।। तथाहि जम्बूद्वीपेऽस्य, प्राग्विदेहस्य भूषणम् । सुकच्छविजये ख्यातं, पुरा श्रीनगरं पुरम् ॥ १० ॥ प्रजापालनृपस्तत्र प्रजापालनलालसः । वैरिवारयशोराज - मरालजलदोदयः ॥ ११ ॥ कदाचिदेष सौधस्थो, वरीवृषति वारिदे । प्रज्वलत्पूलकाकारं, विद्युत्पातमवैक्षत ॥ १२ ॥ यादेषोऽपि यथाऽसौ पतितः क्षणात् । तथा कृतान्तदण्डोऽपि, निपतद्रक्ष्यते कथम् ? ॥ १३ ॥ पदातीनां पुरःस्थानां, नृपात्माऽपि स्वकर्मभिः । नीयमानो निर्विशेषं, रक्ष्यते न वृषं विना ॥ १४ ॥ For Private and Personal Use Only नवमो भवः भूकम्पकारणे विष्णुकुमा वृत्तान्तः
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy