SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥११६॥ भूपालसचिवौ वाजि-रत्नपृष्ठमधिष्ठितौ । जवजिज्ञासया वाजि- लक्षणाऽऽक्षिप्तमानसौ ॥ २९१ ॥ उभौ यथा यथा वल्गां, सुदृढां चक्रतुश्विरम् । तथा तथा भुवं बह्वीं, जह्नतुर्वायुवज्जवैः ॥ २९२ ॥ खेदादमुचतां दूरा-दुत्तेरतुरुभौ ततः । क्षुतृष्णापीडितौ जातो, विपदः संपदः क्षणात् ॥ २९३ ॥ अध्यासामास मेधावी, चा_लिहं महीरुहम् । दूरादुड्डीयमानां स, वीक्षाञ्चके बलाकिकाम् ॥ २९४ ॥ तद्दर्शनाजलस्थानं, विज्ञाय नृपमत्रिणौ । जग्मतुः पिवतः स्माऽम्बु, सनतुः शीतवारिणा ॥ २९५॥ फलालीं जक्षतुर्वन्यां, सखपतुर्दिवात्यये । द्वितीयेऽसि बलं प्राप, तत्पादन्यासरचितम् ॥ २९६ ॥ तौ पुरं प्रापतुः स्वीयं, स्वबलेन महीयसा । पौरैर्महोत्सवश्चक्रे, किं न स्यात् स्वामिसङ्गमे ॥ २९७॥ उवाच सूपकारं राट्, सर्वमन्नं पच द्रुतम् । यथा सुचिरकालोत्था, क्षुधा संक्षीयते स्म मे ॥ २९८॥ उपविष्टे नृपे भोक्तुं, ततः सर्वान्नघस्मरे । आयुर्वेदी जगादाऽथ, नाथाऽकाङ्क्षा परित्यज ॥ २९९ ॥ वैद्यवाक्यमशृण्वान-स्तन्वानो भोजने रतिम् । इतिवत्पूरयामास, जठरं नरपुङ्गवः ।। ३०० ॥ वैद्यवारप्रतीकारे, वितथे सति सर्वथा । अत्याऽऽहाररसापूर- पूरितायुर्व्यपद्यत ॥३०१॥ यथाऽमुष्य मृतिजज्ञे, निःशेषाऽऽहारकाङ्मया । सम्यक्त्वस्य तथा भ्रंशः, परधर्मविधित्सया ॥ ३०२ ॥ सम्यक्त्वं दूष्यते मोहा-दिच्छया विचिकित्सया । दृष्टान्तोन नृप ! ख्यातो, धर्मदेवस्य विश्रुतः ॥३०३।। (तथा हि-) श्रावस्त्यां श्रावकः शुद्ध-सज्ञिको नवतत्त्ववित् । कलाकलापनिलयो, विद्ययाऽभून्नभश्चरः ॥३०४|| द्वीपं नन्दीश्वरं नाम, जगामाऽसौ महामनाः । ऋषभादिजिनेन्द्राणा-मर्चाः पूजयितुं त्रिधा ॥३०५।। नवनो भवः काङ्गादोषे जितशत्रुनिदर्शनम् YOU ॥११६॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy