SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अद्य श्वो वा गमिष्यद्भिर्जेयाऽस्माभिरपत्रपा । जगत्कल्पान्तनित्योऽयं, धर्मो लजिष्यतेऽर्हतः ॥२२१॥ एवमुक्तवती देवी, नेपथ्याऽन्तरितो नृपः । श्रुत्वा पल्यङ्कमासीन-श्चिन्तयाऽऽचक्षवानिदम् ॥२२२॥ भवेदेवादियं शील-विकला ललनोत्तमा । दिव्यादपि न शुद्धा स्या-दिव्या दिव्यस्य सङ्गतिः ॥२२३॥ इतो विद्वानिवोशि-भावं मङ्गलपाठकः । इदं पपाठ सत्कण्ठ, उपश्रुतिविशेषतः ॥ २२४ ॥ आसीस्त्वं निशि राजरक्तहृदयेतीालुना वज्रिणा, प्रातःशङ्कित एव दिव्यपदवीं गत्वाऽऽत्मनः शुद्धये । और्वोत्तापितवार्द्धितापकतलादाकृष्टमुक्तो बहिः, प्राच्याऽसौ नृप ! तप्तमाषक इव प्रद्योतनो द्योतते ॥२२५॥ श्रुत्वेति नृपतिर्दध्यौ, शुद्धत्येषा महासती। अमूषां दिव्यवाणी च, नाऽन्यथा भुवि भाविनी ।।२२६।। कृतप्रभातकृत्योऽथ, समाहूयाऽखिलं पुरम् । धर्माधिकरणं प्राप्य, राजाऽऽख्यादिति सद्वचः ॥२२७।। भो ! भो! चम्पकदेवीयं, दुःशीला नृप्रवादतः। प्रबादश्चेत्प्रयात्येप, दिव्यान्मे भोजनं तदा ॥२२८॥ पौरा बभापिरे राजन् !, वचो ग्राम्योचितं वदन् । विचारविकलोऽभाषि, नेदं युक्तं भवादृशाम् ॥२२९॥ सत्यमेतद्वचः पौरा!, इत्यजल्पद्रसाधिपः। तेजस्विनोऽपि वर्तन्ते, कलङ्कोज्झितये किल ॥ २३०॥ (यतः-) विरुद्धस्तथ्यो वा भवति वितथो वा किमपरं ?, प्रतीतः सर्वस्मिन् हरति महिमानं जनरवः । कुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो, रवेस्तादृक्तेजो नहि भवति कन्यागत इति ॥ २३१॥ इत्युदित्वा नृदेवोऽथ, देवीमाह्वातुमुद्यतः। शुद्धान्तमध्यसञ्चारां, प्रजिघाय महल्लिकाम् ॥ २३२ ॥ साऽपि चूडामणेत्विा , तदभिप्रायमुच्चकैः । अपारयगतं पूर्ण, पौषधं पौषधाऽऽलयात् ।। २३३ ॥ नवमो भवः जिनदेशनाया सम्यक्त्वोपरि चम्पकमाला कथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy