SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XXXXXXXXXXXX अथाविशनदीतीरं, सप्रियो घनवाहनः । इतश्च कूलिनीकूलम-कस्मान्यपतत्तराम् ॥ १३० ।। ततस्ताम्रमयं चारु- करण्डं पुण्यपिण्डवत् । पादयोः पुरतः प्राप्तम- पश्यन्मेघवाहनः ॥ १३१ ।। तर्जयन्निव दारिद्यं, तत्कृच्छादुदघाटयत् । नेपथ्यं नु स्फुरत्कान्ति, दृष्टवान् सूर्यबिम्बवत् ॥ १३२ ॥ तदादाय पुरीमध्ये, मुक्त्वा चैत्ये क्वचित् प्रियाम् । नाडिन्धमाझवीथीषु, गच्छति स्म नृपात्मजः।।१३३।। वर्णकृता तदुद्वीक्ष्य, कुतो यूयं व वासिनः ? । इत्युक्ते प्राञ्जलत्वेन, जगाद वदतांवरः॥१३४ ॥ मेघवाहन इत्याख्यं, विद्धि मां स्वर्णकारकत्वमाख्याहि पुनः साधो, किं पुरं नृपतिश्चकः?॥१३५॥ शृणु भद्र ! पुरं भद्र-सञ्ज्ञमेतन्मनोहरम् । तत्रासीजगदम्भोज-भानुभॊजक्षमापतिः ।। १३६ ॥ सूनुस्तस्य नृपो भीमा, काश्यपी पाति साम्प्रतम् । न सेहे चौरनामापि, या स्वमेऽपि परन्तपः॥१३७॥ इत्युक्त्वा च तलाध्यक्ष-मुपेत्याकथयञ्च तम् । स्वर्णकारे न विश्वासो, विधेयो हन्त शिल्पिषु ॥१३८॥ अदृश्यदस्युवत्तेन, विधृतो घनवाहनः। सम्पदो विपदश्चाप्य-रघट्टीयघटीयिताः॥१३९।। भोजनामाङ्कितं सर्व, नेपथ्यं पृथिवीभुजः । अदर्शयत्तलाध्यक्षस्तं च स्तेयविधिप्रियम् ॥ १४०॥ कौतस्कुतोऽसि किं नाम, कुतः प्राप्तमिदं त्वया?। समीचीनं समाख्याहि, जीवितुं यदि वाञ्छसि ॥१४॥ इत्युक्ते भूभुजा व्यक्तं, नावादीदेष किञ्चन। महत्त्वेन महात्मानः, खचरित्रं गदन्ति न ॥१४२॥ अभाषिष्टतरां रुष्टस्तत्क्षणान्मण्डलेश्वरः । मौनी निगृह्यतामेष, मौनं रक्षेदसँस्तव ॥ १४३ ॥ १ आभूषणादिकम् । २ नाडिन्धमः - सुवर्णकारः । प्रथमः भवः मेघवाहनवृत्तान्तः For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy