SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् ॥८८॥ चतुर्थः सर्गः नवमो भवः तं वालं प्रेक्ष्य स ज्ञानी, पुरेव नखवादनम् । विदधेऽथ धरानाथः, पुरेवाऽपृच्छदञ्जसा ॥ ४२७॥ ज्ञानगर्भ! कथङ्कारमकार्षः नखवादनम् । भवादृशो वरज्ञानी, निष्फलं न हि चेष्टते ॥ ४२८॥ अथोचे ज्ञानविद्राज-भयं मालिकनन्दनः। भावी तव पदेवश्यं, नाऽसाध्यं भाग्यभाजिनाम् ॥४२९॥ पुरेव शून्यधी राजा, पुरेव ध्यातदुर्मतिः। राज्याऽपहारवार्ताभि-रपि वैरं नवीभवेत् ॥ ४३० ॥ स ताभ्यां न हतो बालो, मुक्तः कारुण्यबुद्धितः । अन्यथा कथमीदृक्षं, भाषते ज्ञानपारगः ॥ ४३१॥ इति दत्त्वा तयोर्भूमा-नभयं रहसि स्थितः। खं वृत्तान्तं यथाभूतं, पप्रच्छ प्रथिताशयः ॥ ४३२ ॥ सत्यमुक्तं ततस्ताभ्या-मथाऽसौ रञ्जितो नृपः। सत्यवादिनि रज्यन्ते, प्रतीति यान्ति निश्चितम्॥४३३॥ अथाऽन्यं पुरुषं राजा, जजल्प विजने स्थितः। दृष्टोऽयं मालिनीवाल-स्त्वयान समुपागतः ॥ ४३४ ॥ तं गृहीत्वा तमखिन्यां, त्यजाऽऽशु विजने स्थितः । तत्कण्ठपीठनेपथ्यं, गृहीत्वाऽपय सन्मते ! ॥४३५॥ आमेत्युक्त्वा नरः सन्ध्या-समये मायया गतः। मालिकागारसामीप्य, निभृतं निभृतक्रमः ॥ ४३६ ॥ रममाणं कुमारं तं, दिव्याऽऽभरणभासुरम् । वञ्चयित्वा दृशो नृणा-मंशे विन्यस्तवान्नरः ॥ ४३७॥ नागरैरप्यदृश्योऽसौ, ध्वान्तपूरे प्रसर्पति । बहिरुद्यानमगमत् , ततश्चन्द्रोदयोजनि ॥ ४३८ ॥ पञ्चेषुकेलिनाट्यस्य, नान्दी कुमुदमङ्गलम् । अध्यास्त क्षणदानाथः, प्राचीनाऽचलचूलिकाम् ॥ ४३९ ॥ उजीवितं चकोरीभि-भूयसा तमसा गतम् । नर्तितं च कुमुद्वत्या, अम्लानं कमलश्रिया ॥ ४४०॥ इतश्च वालिशः सोऽपि, नृकूर्चकचकर्षणम् । चकार तात ! तातेति, वावदूको मुहुर्मुहुः ॥४४१॥ | जिनदेशनायां तपोधर्म अघटकुमारवृत्तान्तम् ॥८८॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy