SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। एदे गोदावरीए लहरिपरिचिदा दिण्णसिप्पाकडप्पा ___ कंदप्पोद्दीवणेच्छागहिदविहरणा दाहिणा एन्ति वाआ ॥४४॥(क) राजाक्वचिदविषये सा सारङ्गीतरङ्गितलोचना हृदि कवचितः पञ्चेषुमें विकुञ्चितकार्मुकः । अयमपि बत प्राप्तश्ताङ्कुराकुलकोकिला कलरवजयोद्घोषः कालः किमत्र समीहितम् ॥ ४५ ॥ (सनिर्वेदोत्कण्ठम् ।) आवासः किलकिञ्चितस्य दयिता पार्श्वे विलासालसा कणे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः । गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्रोत्सवे ॥ ४६ ।। संप्रति कुर्वन्ति कोकिलकलोपहति लतासु रुन्धन्ति वासभवनेषु समीरमार्गान् । किं तन्न यद्विरहिणीनिवहस्य सख्यः सावज्ञमाकुलतया कलयन्त्यजस्त्रम् ॥ ४७ ॥ (विचिन्त्य ।) तत्क्वायमात्मा विनोदयितव्यः । विदूषकः-भो वअस्स, अहिणवमहुरसतरङ्गिदललिदलदालिङ्गिदकुसुमहसिदतरुणतरुमण्डलं कुण्डलिदकोदण्डचण्डप्पहारपडुमअणमुहडप (क) कावेरीनालिकेरीतरलननिपुणा नर्मदानर्मकारा: काझ्याश्चुम्बनाद्रीस्तुमुलितमुरलालोलकल्लोलमालाः । एते गोदावर्या लहरिपरिचिता दत्तसिप्राकटप्राः कंदर्पोद्दीपनेच्छागृहीतविहरणा दक्षिणा आगच्छन्ति वाताः ।। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy