SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। चालुक्यपार्थिवकुलार्णवपूर्णचन्द्रः साम्राज्यमत्र भुवनत्रयगीतमेति ॥ १३ ॥ (पुरोऽवलोक्य ।) कथमयमस्मद्धाता महामात्यप्रणिधिभूमिकामाश्रित एव । तदेहि । अनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ ।) प्रस्तावना । (ततः प्रविशति प्रणिधिः ।) प्रणिधिः-अहो किमपि यौगन्धरायणप्रभृतिमहामात्यविजयिनोऽभ्यर्हिता मतिरमात्यसंपत्करस्य । तथा हि । वात्सल्यं न वहत्यपत्यविषये व्याक्षिप्यते न क्षणं __ दाक्षिण्येन समीहिते नववधूवर्गेऽपि धीराशयः । निष्णातः कुटिले नयाध्वनि चरन्नाचारपूतः प्रभो दुःसाध्यानपि साधयत्यभिमतानान्मुसाधानिव ॥ १४ ॥ अपि च । अस्याश्चर्यमयस्य मन्त्रगतयः स्वैरन्तरङ्गरपि ज्ञायन्ते न विधेरिवातिकुटिला वैदग्ध्यसीमाभुवः । श्रूयन्ते प्रतिभूभृतां वसतयस्त्वङ्गत्तुरंगावली विश्वोत्खेलखुराग्रखण्डितमणिक्षोणीतलाः केवलम् ॥ १५ ॥ किं च । शेषे प्रज्ञाविशेषः स्फुरति यदि किमु च्छद्मना पद्मनाभः ___ संरम्भात्तेन तेन स्वयममुरवधव्यग्रभावं दधार । वाचामीशोऽपि सत्यं यदि विपुलमतिः श्रूयते वजिणः किं दैत्यावस्कन्दबन्दिग्रहणपरिभवश्यामला शक्रलक्ष्मीः ॥ १६ ॥ संप्रति प्रेषिताश्च प्रतिदिशं सेनापतय इति । (कर्ण दत्त्वा । आकाशमवलोक्य ।) अमरसरिदुपान्तभ्रान्तचक्राह्यचक्र भ्रममुरसिजभारैः काश्चन व्यञ्जयन्त्यः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy