________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
स्नानालये वा ततनिष्कुटे वा गोष्ठेऽपि वा घुष्पकुटीरके वा ।
पराङ्गनाभोगपरेण यूना वस्तव्यमोलोक्य विलोकशून्ये ।। १८५ ॥ ततस्ततः । किं ब्रवीषि—'ततस्तस्या देवरस्तदेव गृहं गृहीतधूमतिरङ्गारार्थी प्रविश्य समुपविश्य चुल्लीसमीपभुवि तत्रत्येनैव केनचित् पुष्टावशिष्टेन काष्ठेन गाढावनमितमूर्धा किंचिदुल्मुकमुज्ज्वलयन्, उपरि बैद्धभस्मपरागमुत्सारयन्, वदनमरुता यावदेव दरदृश्यमानाङ्गाररुचिभिरगारतिमिरनिकर मदीयधैर्यसारेणैव साकमपसारयति स्म' इति । हन्त, अत्याहितमत्याहितम् । ततस्ततः।किं ब्रवीषि-'तावदेव मदुपकण्ठगते सलिलकलशे मयैव निपातिते तदम्बुपरिवाहविगाहनसमसमयमेव संफूत्कारमुत्थितेन कदुष्णेन भस्मना युगपदेव नासानयनवदनविवरपातिना कमपि विकारमापादितः । तत्कालमेव कलशपतनचकितपलायमानगृहविडालकं कलशपतनकारणं मन्यमानो मन्युना शपन्, काष्ठेन क्षिपन्, पक्ष्मपुटनासिकाधरश्मश्रूणि कराञ्चलेन परिमार्जयन्, नष्टहुताशनतया निराशो निगाम' इति । (सहर्षम् ।) दिष्टया पुनरुज्जीवितोऽसि । ततस्ततः । किं ब्रवीषि----'गत्वा च पञ्चषाणि पदानि पुनरेव निवृत्य वामकरण कवाटमाप्य बहिरायसकीलकेन बद्धा निरगात्' इति । (सविषादम् ।) कष्टं कष्टम् । ततस्ततः । किं ब्रवीषि-'अथ कथंचन कंचिदिव समयं समवस्थितो मन्दं मन्दं कवाटपुटं विघटयितुमनेकधात्मानमायास्य नीरन्ध्रकृतबन्धनतया बहुभिरप्युपायैरशक्यविघटनमवधारयन्नचिन्तयम् । तदा खल्विदं कवाटबन्धनमकिंचित्करं भवेत्, यदि नाम सा प्रसीदति प्रेयसी कमलिनी । यदि च केनचिदन्तरायेणोपहन्यमानया तया सदनान्निर्गन्तुमेव न पायते, तदा पुनरत्र गाढकवाटबन्धे घेनेष्टकारचितभित्तौ अभेद्योपरिपरिच्छदे संप्रच्छद्मनि दारुपञ्जरे बुद्धिपूर्वमात्मनैव निपतितस्य मम प्रभाते गृहपतिकरपतनमवश्यमसंशयमेव भविप्यति । कोऽत्र प्रतीकारः । को वा निर्गमोपायः । का वा युक्तिः । किं वा
१. 'कुञ्ज' ख. २. 'आलोकविलोक' ख. ३. 'उल्ललयन्' ख. ४. 'परिबद्ध' ख. ५. 'सह निःसारयति' ख. ६. 'सचूत्कार' ख. ७. 'आस्थितो' ख. ८. “भवति' ख. ९. 'दृढेष्टका' ख. १०. 'सद्मनि दारुण' ख.
For Private and Personal Use Only