________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
प्रारब्धरहितस्यैवं भवेदेव न संशयः ।
प्रारब्धपरतन्त्रं त्वां ते मुञ्चन्ति कथं पुनः ॥ २५ ॥ किं च ।
श्लथाभिमाने पुरि हन्त देवे क्षोभो भवेत्त्वत्प्रकृतिप्वकस्मात् ।
ततोऽवकाशं प्रतिलक्ष्य सर्वे प्रत्यर्थिनम्ते प्रबला भवेयुः ॥ २६ ॥ किं च ।
यक्ष्मणि जाग्रति तस्मिन्पाण्डुज्वरसंनिपातपरिवारे ।
देवस्य कथं भविता स्थितिरिह यत्नादपि स्वरूपेण ॥ २७ ॥ इममर्थमप्रतिहतया प्रतिभया स्वयमेव विचारयतु देवः ।
कर्म-ततस्ततः ।
काल:-तत इत्यात्मनीनानि वचनान्याकर्णयन्कुतूहलाकुलितहृदयः समरयत्नकृतत्वरः मुहुर्मुहुस्तमित्थं प्रशंसन्नवोचत्त्वयि दत्तभरस्य मेऽधुना किं बहुनानेन विचारणश्रमेण । भवते ननु रोचते यथा वा यतितव्यं हि तथैव निर्विशङ्कम् ।। २८ ।। कर्म-ततस्ततः ।
काल:-ततश्च किल यदेवं देवस्य मनसो व्याकुलीभावः स सर्वोऽपि शत्रूपजाप इति मन्तव्यम् । अतो विज्ञापयामि । तिष्ठतु दाढ्यं मद्वचसि इति राजानं पर्यवस्थाप्य स्वकार्य एव व्याप्रियते ।
कर्म-भगवन् , ज्ञानविज्ञानयोरेकरूपयोरिव सतोः कुत इयान्विरोधः । काल:----वत्स, मोक्षे धीमा॑नमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
तयोविरोध इत्येतत्किमाश्चर्यकरं तव ॥ २९ ॥ कर्म-भवतु नाम तयोविरोधः । तदेवान्तरमुपलभ्य क्रियतां च द्विषद्भिपजापः । ज्ञानशर्मणा तु स्वामिहितैषिणा विपक्षानुकूलं पुराभिमानशैथिल्यं कथमुपदिष्टम् ।
काल:--नहि विपक्षानुकूलमिति न च तदीयोपजाप इति वा प्रवृत्तिरेतस्य । किं तु वस्तु तत्त्वमुपदेष्टव्यमित्येव तस्य स्वभावः ।
For Private and Personal Use Only