SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । कर्म-भगवन् , कीदृशो ज्ञानशर्मणोपजापः । काल:-वत्स, श्रूयताम् । तत्तत्कार्यविशेषसाधनविधावुक्त्वेतिकर्तव्यतां जीवस्यास्य विभोः स्वकीयपृतनासंनाहमालोकितुम् । निष्क्रान्ते सचिवे कदाचन भनत्येकाकितां राजनि श्रुत्वा तत्समयं तदन्तिकभुवं स ज्ञानशर्मा ययौ ॥ ७ ॥ अनन्तरमायान्तमवलोक्य दूरादेव अथ सुचिरवियोगात्संदिहानः सखित्वे किमपि विवशचेता निर्भरैर्हपभारैः । कथमपि समुदश्रुर्बाप्पसंरुद्धकण्ठो वचनमिदमवोचन्मत्तहंसस्वरेण ॥ ८ ॥ चेतः शीतलतामुपैति नयने विस्तारिणी कौतुका___ निर्मर्यादमुपैत्यमानिव तनौ कोऽप्यन्तरानन्दथुः । बाहू मां परिरम्भणे त्वरयतस्त्वां वीक्ष्य कस्त्वं सखे ___ पुण्यैः पूर्वकृतैश्विरान्मम दृशोः पन्थानमारोहसि ॥ ९ ॥ कर्म-ततस्ततः । काल:-ततोऽसौ जीवस्य वचनमिदमाकर्ण्य ज्ञानशर्माकथयत् । सोऽहं जीव विभो चिरन्तनसखस्ते ज्ञानशर्मा तथा __ प्राणेष्वन्यतमो मुहुस्तव हिताकाङ्की च सर्वात्मना । विज्ञानस्य कुमन्त्रितैः परवति त्वय्यव्यवस्थस्थिती शान्तस्त्वन्नगराद्विरक्तहृदयः प्रास्थामनास्थावशात् ॥ १० ॥ संप्रति हि । दुःसामाजिकबोधनैः कुपदवीसंचारमासेदुष___ स्तेनापज्जलधौ निराश्रयतया राज्ञो वृथा मज्जतः । ब्रूते यो न हितं वचोऽप्रियमपि स्वेष्टं निगृह्याग्रहा स्वामिभ्यः स तु बुद्धिमत्पशुरिति प्राप्नोति मन्त्री प्रथाम् ॥ ११॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy