________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः ]
जीवानन्दनम् ।
६३
अतः सर्वमस्मै निवेदयामि । यदयमपि तस्य पाण्डोविश्वासस्थानमेवेति । (प्रकाशम् ।) सखे, तवाप्यकथनीयं नाम किमस्ति श्रूयताम् । विज्ञानप्रहितेन राजहत केनास्मन्निसर्गद्विषो
यावत्साधयितुं रसं कथमपि ध्यानस्य सिद्ध्या क्रमात् । स्वच्छन्देन च पुण्डरीकनगरीं गत्वा मनोद्वारतः
साम्बस्यैव महेश्वरस्य दृढया भक्त्या प्रसादात्स्थितम् ॥ १४ ॥ तदिदमाकर्ण्य मन्त्रिणा पाण्डुना एतस्य विघ्नाचरणं मनसः पारतन्त्र्यं विना नोपपद्यत इति तदर्थे कामादयः षडेव प्रभवन्तीति त एव वयं प्रेषिताः । अस्माभिश्च तत्र सखिस्नेहवशादङ्गीकृतं मनसः पारतन्त्र्यकरणम् ।
कुष्ठः -- ततस्ततः ।
मत्सरः -- ततश्च तेष्वहमेको मन्दभाग्य इमां दुरवस्थामनुभवामि । कुष्ठ: - अथ कामस्य कावस्था ।
मत्सरः - सखे, किं कथयामि मन्त्रिहतकस्य दुर्बुद्धिविलसितम् । श्रुत्वा पित्तकफात्मपङ्गुयुगल स्पष्टोपजापं तथा
हृद्रोगस्य विमोचनं च सचिवः स्वात्कििकराद्विस्मितः । (आकाशे लक्ष्यं बद्धा ।)
पाण्डो साधु भवान्यदेव परमेशाराधने साधनं
चेतःस्थैर्यवदुद्यतस्तदरिणा तद्धेत्तुमित्यब्रवीत् ॥ १९ ॥ इतः परमपि स बुद्धिमान्पाण्डुर्मम रसौषधसेनासंधानव्यापृततां तां राज्ञ एकाकितां मनसश्चञ्चलतां निरूप्य प्रवलांस्तद्वेदिनः कामादीन्प्रेषयिष्यतीति मत्वा किंकरमुखेनैव स्वनागरिकाय विचाराय नगरपर्यटनमपहाय तत्रैव कामादिभेदने सावधानेन स्थेयमिति विज्ञानमन्त्रिणा समादिष्टम् ।
कुष्ठः -- ततो विचारेण किं कृतम् ।
मत्सरः - तेन च तत्सदृशबुद्धिना कामः कामपि योग कलामुत्पाद्यो - पजापेन ध्यानविषयतामापादितः ।
कुष्ठ: - हा कामस्यापि परिणतिः । अथ क्रोधस्य को वृत्तान्तः ।
For Private and Personal Use Only