SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० काव्यमाला। जन्मान्तरीयतपसां परिपाकतः सा प्राप्तापि दैवहतकेन मया विमुक्ता ॥ १४ ॥ तामेव हा स्मितसुधामधुराननेन्दं भक्ति तथा निरुपमामसकृतिचिन्त्य । स्नातुं च भोक्तुमशितुं शयितुं विहर्तु _शक्नोमि नाहमधुना परितप्यमानः ॥ १५ ॥ हृदयानन्दविधात्री भक्ति तामन्तरा न मे सौख्यम् । आसारेण विना किं धर्मम्लानस्य शालिनस्तृप्तिः ॥ १६ ॥ तत्कथमहं प्राकृतमिमं व्यासङ्गं परित्यज्य तामेव परमानन्दलीलामनुभूय कृतार्थो भूयासम् । (इति सचिन्तस्तिष्ठति ।) (ततः प्रविशति स्मृतिः ।) स्मृतिः-अम्मो, भअवदीए शिवभत्तीए विओएण बलिअं उक्कण्ठिदो राआ संपदं पहाणभोअणव्वावारं वि णाणुमण्णेदि । ता तुरिअं गदुअ भअवदीए इमं वुत्तन्तं णिवेदिअ ताए णं संयोजइदं यतिस्सं ति पुण्डरीअपुरं गदुअ तत्थ सद्धाए सेविजन्ती भअवदि दिट्ठण सद्धामुहेण तह संविधाणं कदुअ आअदमि । ता राअसमीवं गदुअ एवं णिवेदेमि । (इति परिक्रम्योपसृत्य ।) जेदु जेदु देवो । (क) । राजा-(दृष्ट्वा ।) अये, कथमियं स्मृतिः । सखि, दिष्ट्या चिरादागतासि । स्मृतिः-देव, भअवदि शिवभत्तिं उद्दिसिअ तुह एआरिसी बलिअं उक्कण्ठं दिट्ठण-(ख) (संस्कृतमाश्रित्य ।) ___ (क) अम्मो, भगवत्याः शिवभक्तेर्वियोगेन बलवदुत्कण्ठितो राजा सांप्रतं स्नानभोजनव्यापारमपि नानुमन्यते । तत्त्वरितं गत्वा भगवत्या इदं वृत्तान्तं निवेद्य तयैनं संयोजयितुं यतिष्ये इति पुण्डरीकपुरं गत्वा तत्र श्रद्धया सेव्यमानां भगवती दृष्ट्वा श्रद्धामुखेन तथा संविधानं कृत्वा आगतास्मि । तद्राजसमीपं गत्वा इदं निवेदयामि । जयतु जयतु देवः । (ख) देव, भगवतीं शिवभक्तिमुद्दिश्य तवैतादृशीं बलवदुत्कण्ठां दृष्ट्वा For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy