SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] जीवानन्दनम् । मत्री-श्रूयतां तावत् । पुण्डरीकपुरं राज्ञि प्रविष्टे रन्ध्रलाभतः । स्वराजानुज्ञया पाण्डुररुधसैनिकैः पुरम् ॥ ३३ ॥ यक्ष्महतकस्यास्मच्छत्रोर्बहवः सैनिकाः । ग्रहण्यश्मर्यतीसारशूलार्शःपाण्डुकामलाः । विषूचिकाकुष्ठगुल्मसंनिपातज्वरादयः ॥ ३४ ॥ देवी-अमञ्च, एत्ति पुरोपरोहसंरम्भं कुणन्तेण सहसैणिएण तेण जक्खहदएण अम्हाणं किं अच्चाहिदं कादव्वम् । (क) _मत्री-देवि, पुरान्निष्क्रमयितव्या वयमित्येव तस्य हताशस्य दुराशाभिनिवेशः । देवी-अहो अणत्तणीणत्तणं जक्खहदअस्स । जो अम्हेसु पुरादो णिकन्तेसु सअं कहिं ठाइस्संति अप्पणो वि णासं ण गणेदि । (ख) मत्री-सत्यमुक्तं देव्या । महापातकसंभूतेस्तस्य पापस्य यक्ष्मणः।। वैरायितमिदं चित्रं वविनाशमपीच्छतः ॥ ३५ ॥ यदुक्तमभियुक्तैः 'अपथ्यसेविनश्चौरा राजदाररता अपि । जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः ॥ ३६ ॥” इति । ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ह्येवं या समभाणि भर्तृहरिणा काष्ठा परा पापिनाम् । तामेतामतिशेत एप सपरीवारस्य नाशं निज स्योत्पश्यन्नपि निष्क्रमाय यतते यो नः पुरात्पातकी ॥ ३७ ॥ (क) अमात्य, एतावन्तं पुरोपरोधसंरम्भं कुर्वाणेन सहसैनिकेन तेन यक्ष्महतकेनास्माकं किमत्याहितं कर्तव्यम् । (ख) अहो अनात्मनीनत्वं यक्ष्महतकस्य । योऽस्मासु पुरान्निष्क्रान्तेषु स्वयं कुत्र स्थास्यामीत्यात्मनोऽपि नाशं न गणयति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy