________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
गवद्भक्तिर्नाम कापि कल्पलता प्रथममङ्कुरिता पश्चादुपचितपरिचया च सा मम हृदयानुरञ्जनी क्रमेण भगवन्तौ परमेश्वरौ साक्षाद्दर्शितवती । अनितरसाधारणया च तया प्रसन्नौ भगवन्तौ संप्रत्यभिलषितान्रसगन्धकादीन्प्रसादीकृत्यार्पितवन्तौ । अग्रेऽपि तस्या एव महिम्ना सकलमप्यभिलषितं पुमर्थ लप्स्यामहे ।
बुद्धिः-अजउत्त, किं एदे रसगन्धआ अण्णणिव्वेक्खा स जेव्व विवक्खक्खवणं णिव्वहन्दि । (क)
राजा-देवि, दिव्यौषधीभिः शोधिताः सन्तो विविधरसायनद्वारा उक्तसामर्थ्या ह्येते ।
देवी-ता एव्वं संविहाणसमत्थेण केण वि होदव्वम् । (ख) राजा-विज्ञानशर्मैवात्र निर्वोढा । यतः । .
ऋषिरेव विजानाति द्रव्यसंयोगजं गुणम् ।
विज्ञानशर्मणः कोऽन्यः सर्वज्ञाननिधिर्ऋषिः ॥ २२ ॥ किं च ।
महेशतेजःसंभूतो रसः कारुणिकाग्रणीः ।
यः स्वानिष्टमुरीकृत्य परंपीडां व्यपोहति ॥ २३ ॥ तदुक्तम्
'मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति ।
अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ॥ २४ ॥ 'सुरगुरुगोद्विजहंसापायकलापोद्भवं किलासाध्यम् ।
श्चित्रं महदपि शमयति कोऽन्यस्तस्मात्पवित्रतरः ॥ २५ ॥' गन्धकस्यापि माहात्म्यमुक्तम्
'ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति गन्धके । (क) आर्यपुत्र, किमेते रसगन्धका अन्यनिरपेक्षाः स्वयमेव विपक्षक्षपणं निर्वहन्ति ।
(ख) तदेवं संविधानसमर्थन केनापि भवितव्यम् ।
For Private and Personal Use Only