________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
जीवानन्दनम् ।
द्वितीयोऽङ्कः ।
(ततः प्रविशति चेट: कासः ।) कास:-अहं खलु स्वमन्त्रिहतकोपदिष्टं किमपि रहस्यं शृण्वञ्जीवो नाम प्रतिराजा स्वस्मिन्किमपि चेष्टितुमन्तर्मुखस्तिष्ठतीति चारमुखादवगतवता संभ्रान्तेन महाराजेन यक्ष्मणा किमयं वृत्तान्तः श्रुतस्त्वया न वेति युवराज पाण्डं पृष्ट्वागच्छेति प्रेषितोऽस्मि । अतस्त्वरन्नितो युवराजसमीपं गच्छामि । अहो महाराजस्य युवराजे महती प्रीतिः । यतः ।
यद्यज्ज्ञातं स्वयं तत्तद्युवराजोऽपि वेत्ति चेत् ।
तदा राज्याधिकारेऽस्य शक्तिः स्यादिति मन्यते ॥ १ ॥ (पार्श्वतो विलोक्य ।) कथमियं छदिः । यैषा
प्रवालमृदुलाधरप्रकरचारुबिम्बप्रभा
हृताहृतविलोचनाञ्जनविशेषदृश्यानना । मयूरपदकस्फुरत्कठिनतुङ्गपीनस्तनी
नरङ्गयति कौतुकं तरुणिमश्रिया चेतसि ॥ २ ॥ (स्मरणमभिनीय।)
श्लथजलधरजालश्लिष्टशीतांशुबिम्बा
नभिनवमुकुराविर्भूतमुक्ताकदम्बान् । दरतरलितचक्रद्वन्द्वखेलन्मृणाला
विवशहृदयमस्या विभ्रमानन्वभूवम् ॥ ३ ॥ (सभयम् ।) तदियं मामवलोकयति चेदिदानी विभ्रममूल्यमनुपयुज्य मां निरुन्धीत ततो गमनविघ्नः स्यात् । (इत्युत्तरीयपटेन मस्तकमवगुण्ठयन्नन्यतो गच्छति ।)
(प्रविश्य) छर्दिः--अए सठ, त्तिम्मि मुत्ताफलं परिपणीकदुअ पुरुसाइदं मए कारविअ दाणि मं पेक्विअ ओगुण्ठितसीसो बद्धकटी कुदो पलाएसि । (क) (इति कासं हस्ते गृह्णाति ।)
(क) अये शट, रती मुक्ताफलं परिपणीकय पुरुषायितं मया कारयित्वा इदानी मां प्रेक्ष्यावण्ठितशीर्षो बद्धकटिः कुतः पलायस ।
For Private and Personal Use Only