SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ १ अङ्कः जीवानन्दनम् । धवलमुपरि भर्तुश्चामरं धूयमानं विरमयति करेण व्यक्तमाकर्णनाय ॥ ३८ ॥ (प्रकाशम् ।) श्रोतव्यमिदं धारणावचनम् । यक्ष्महतकः पुरान्निष्क्रामणमेवास्माकमिच्छतीति । राजा-किमत्र प्रतिविधातव्यम् । देवी-(सोद्वैगम् ।) दाणिं किं कुम्भो । (क) मन्त्री-देवि, मा भैषीः । प्रतिविधानप्रकारोऽपि धारणया विदितः । राजा-कथमिव । मन्त्री--(कर्णे) एवमेवम् । राजा-कथमिदं धारणया निर्धारितम् । मत्री--रसगन्धकप्रयोगमन्तरेण सपरिवारोऽहमजय इति यक्ष्मराजस्य हृदयं विश्वसनीयया तापसीवेषया धारणया गृहीतम् । देवी-(साश्वासम् ।) जइ एव्वं ता कहं अह्मेहिं रसगन्धआ संपादणिज्जेत्ति । (ख) राजा शंभोर्वीय रसो नाम शर्वाण्या नाम गन्धकः ।। __ताभ्यामेव प्रसन्नाभ्यां तो ग्राह्याविति मे मतिः ॥ ३९ ॥ देवी–केण उण उवाएण ताणं पसादो संपादणिज्जो । (ग) मत्री-उपासनयैव । राजा-युक्तमुक्तं भवता । श्रूयते हि पुरा मृकण्डरुमापतिमुपास्य पुत्रं लेभे । तत्पुत्रोऽपि तदुपासनया मृत्युमुखान्मुक्तो दीर्घमायुरलभतेति । मत्री-सम्यगवगतं महाराजेन । यतः खल्वेष पादाघातत्रुटितयमुनाभ्रान्तबावन्तरोद्य द्रक्तस्रोतः समुपशमिताशेषशोकाश्रयाशम् । (क) इदानी किं कुर्मः । (ख) यद्येवं तत्कथमस्माकं रसगन्धको संपादनीयौ इति । (ग) केन पुनरुपायेन तयोः प्रसादः संपादनीयः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy